2023-04-06 16:11:37 by Alok Kumar
This page has been fully proofread once and needs a second look.
मित्रभेदम्
[ तन्त्रम् १
मिमां प्रापित इति । एवमभिवदन् पञ्चत्वमुपगतः । अथ तै राजाधिकृत-
स्तमर्थं ज्ञात्वा धर्मबुद्धये तद्धनं दापयित्वा दुष्टबुद्धिः शूले निक्षिप्तः ।
इति त्रयोदशी कथा समाप्ता ।
5
अतोऽहं ब्रवीमि । दुष्टबुद्धिरबुद्धिश्चेति । आख्याते चाख्यानके पुनः कर-
टको दमनकमब्रवीत् । धिङ्मूर्खातिपाण्डित्येन त्वया दग्धः स्ववंशः । साधु
चेदमुच्यते ।
लवणजलान्ता नद्यः स्त्रीभेदान्तानि बन्धुहृदयानि ।
10
पिशुनजनान्तं गुह्यं दुष्पुत्रान्तानि च कुलानि ॥ १६० ॥
अपि च यस्य तावन् मनुष्यस्यैकस्मिन्नेव मुखे जि
कस्तस्य विश्वासमियात् । उक्तं च
।
द्विजिह्वमुद्वेगकरं क्रूरमेकान्तनिष्ठुरम् ।
खलस्याहेश्च वदनमपकाराय केवलम् ॥ १६१ ॥
तन्ममाप्यनेन तव चरितेन भयमुत्पन्नम् । कस्मात्
मा गाः पिशुनवि
चिरकालोपचीर्णोऽपि दशत्येव भुजंगमः ॥ १६२ ॥
विद्वानृजुरभिगम्यो विदु
ऋजुमूर्खस्त्वनुकम्प्यो मूर्खशठः सर्वथा वर्ज्य: ॥ १६३ ॥
तन्न केवलमात्मीयवंशविनाशस्त्वया प्रयतितः किं पुनर
20
पि व्यभिचरितम् । तद्यतस्त्वं स्वं स्वामिनमिमां दशां नयसि तस्य तवान्य-
स्तृणभूतः । उक्तं च
15
25
तुलां लोहसहस्रस्य यत्र खादन्ति मूषकाः ।
गजं तत्र हरेच्
दमनकोऽब्रवीत् । कथं चैतत् । सोऽब्रवीत् ।
अथ लोहभक्षकमूषककथा नाम पञ्चदशी कथा ।
अस्ति कस्मिंश्चिदधिष्ठाने क्षीणविभवो वणिक्पुत्रः । स देशान्तरमर्थो-
पार्जननिमित्तं प्रस्थितः । तस्य च गृहे पूर्वपुरु
तुलास्ति । स चान्यस्मिन् वणिक्पुत्रके तां निक्षिप्य देशान्तरमर्थोपार्जनाय