This page has been fully proofread once and needs a second look.

स आह । अस्मिन् वृक्षकोटरेऽद्य रात्रौ प्रविश्यादृश्यीभूय स्थीयताम् । प्रात-
धर्माधिकृतैः पृष्ठे वक्तव्यम् । धर्मबुद्धिना तद्धनं गृहीतमिति । ततस्तेनाभिहि-
तम् । पुत्र विनष्टावावाम् । यत्कारणम् । अनुपाय एषः । साधु चेदमुच्यते ।
 
उपायं चिन्तयेत्प्राज्ञो ह्यपायमपि चिन्तयेत् ।
पश्यतो बकमूर्खस्य नकुलैक्षिताः सुताः ॥ १५९ ॥
 
सोऽब्रवीत् । कथं चैतत् । पिताह ।
 
अथ बकसर्पनकुलकथा नाम चतुर्दशी कथा ।
 
अस्ति कस्मिंश्चिदर्जुनवृक्षे बकदम्पती प्रतिवसतः स्म । तत्र च तद्वृक्ष-
विवरानुसारी महाकाय:यः सर्पो यावन्ति बकापत्यानि भवन्ति तावन्त्येवासं-
जातपक्षाणि भक्षयति स्म । तेन च निर्वेदेन नष्टसंज्ञ आहारक्रियामुत्सृज्य सर-
स्तीरं गत्वा बको विमनस्क आस्ते । अथ तत्रैकः कुलीरकस्तं दृष्ट्वाह । माम
किमद्योद्विग्नो भवानिति । स तु तस्मै यथावृत्तमपत्यभक्षणमाख्यातवान् ।
कुलीरकस्तु तं समर्थितवान् । भद्र अहमुपायं तद्वधाय ते कथयामि । येयं नकुल-
वसतिरेतत्प्रभृत्यविछिन्नपरंपरया सर्पविवरं यावन् मत्स्यपिशितं प्रकीर्यताम् ।
ततस्तदाहारलुब्धैर्नकुलैरयमागत्यात्र द्रष्टव्यः स्वभावविद्वेषाद्व्यापादयितव्यश्च ।
तथा चानुष्ठिते नकुलैर्मत्स्यमांसमार्गानुसारिभिः पूर्ववैरक्रियामनुस्मरद्भिः
सर्पं व्यापाद्य पूर्वदृष्टमार्गमाधावद्भिस्तद्वृक्षे बकावासं गत्वा बकापत्यानि
भक्षितानि ।
 
इति चतुर्दशी कथा समाप्ता ।
 
अतोऽहं ब्रवीमि । उपायं चिन्तयेत्प्राज्ञ इति । एतच्छ्रुत्वापि लोभा-
क्रान्तेन दुष्टबुद्धिना बलाद्रात्रौ नीत्वा पिता वृक्षकोटरे स्थापितः । अथ
प्रभातसमये धर्माधिकरणप्रकृतिप्रत्यक्षं धर्मशास्त्रवचनाभिश्राविताद्वनस्पते-
र्निःसृता वाक् । धर्मबुद्धिनैतद्धनमपहृतम् । तच्च श्रुत्वा धर्मबुद्धिरचिन्तयत् ।
कथमेतदसत्यमलौकिकमापतितम् । तदहमिममेव वृक्षमारुह्य निरीक्षयामि । इति
निरीक्ष्याहार्यैः शुष्कदारुपर्णनिचयैर्वृक्षविवरमापूर्याग्निमादीपयितुमारब्धः । अथ
ज्वलति तस्मिन्नर्धदग्धशरीर:रः स्फुटितदृष्टिः करुणमाक्रन्दन्दुष्टबुद्धिपिता किंचि-
च्छेषजीवितो वृक्षकोटरान्निःसृत्य भूमौ निपतितः । ततः सविस्मयं सर्वैर्दृष्टः