This page has been fully proofread once and needs a second look.

कथा १३]
 
धर्मबुद्धिदुष्टबुद्धिकथा
 
४३
 
स आह । अस्मिन् वृक्षकोटरेऽद्य रात्रौ प्रविश्यादृश्यीभूय स्थीयताम् । प्रात-

धर्माधिकृतैः पृष्ठे वक्तव्यम् । धर्मबुद्धिना तद्धनं गृहीतमिति । ततस्तेनाभिहि-

तम् । पुत्र विनष्टावावाम् । यत्कारणम् । अनुपाय एषः । साधु चेदमुच्यते ।
 

 
उपायं चिन्तयेत्प्राज्ञो हाह्यपायमपि चिन्तयेत् ।

पश्यतो बकमूर्खस्य नकुलैक्षिताः सुताः ॥ १५९ ॥

 
सोऽब्रवीत् । कथं चैतत् । पिताह ।
 
5
 

 
अथ बकसर्पनकुलकथा नाम चतुर्दशी कथा ।
 

 

 
अस्ति कस्मिंश्चिदर्जुनवृनेक्षे बकदम्पती प्रतिवसतः स्म । तत्र च तद्वृक्ष-

विवरानुसारी महाकाय: सर्पो यावन्ति कापत्यानि भवन्ति तावन्त्येवासं

जातपक्षाणि भक्षयति स्म । तेन च निर्वेदेन नष्टसंज्ञ आहारक्रियामुत्सृज्य सर - 10

स्तीरं गत्वा बको विमनस्क आस्ते । अथ तत्रैकः कुलीरकस्तं ष्दृष्ट्वाह । माम

किमयोद्विग्नो भवानिति । स तु तस्मै यथावृत्तमपत्यभक्षणमाख्यातवान् ।

कुलीरकस्तु तं समर्थितवान् । भद्र अहमुपायं तद्वधाय ते कथयामि । येयं नकुल-

वसतिरेतत्प्रभृत्याविछिन्नपरंपरया सर्पविवरं यावन् मत्स्यपिशितं प्रकीर्यताम् ।

ततस्तदाहारलुब्धैर्नकुलैरय मागत्यात्र द्रष्टव्यः स्वभावविद्वेषाद्वयापादयितव्यञ्च 15

तथा चानुष्ठिते नकुलैर्मत्स्यमांसमार्गानुसारिभिः पूर्ववैरक्रियामनुस्मरद्भिः

सर्प व्यापाद्य पूर्वदृष्टमार्गमाधावद्भिस्तदवृक्षे बकावासं गत्वा बकापत्यानि

भक्षितानि ।
 

 

 

 
इति चतुर्दशी कथा समाप्ता ।
 

 
अतोऽहं ब्रवीमि । उपायं चिन्तयेत्प्राज्ञ इति । एतत्वापि लोभा- 20

कान्तेन दुष्टबुद्धिना बलाद्रात्रौ नीत्वा पिता वृक्षकोटरे स्थापितः । अथ

प्रभातसमये धर्माधिकरणप्रकृतिप्रत्यक्षं धर्मशास्त्रवचनाभिश्राविताद्वनस्पते-

निःसृता वाक् । धर्मबुद्धिनैतद्धनमपहृतम् । तञ्च श्रुत्वा धर्मबुद्धिर चिन्तयत् ।

कथमेतदसत्यमलौकिकमापतितम् । तदहमिममेव वृक्षमारुह्य निरीक्षयामि । इति

निरीक्ष्याहार्यैः शुष्कदारुपर्ण निचयैर्वृक्ष विवरमा पूर्याग्निमादीपयितुमारब्धः । अथ 25

ज्वलति तस्मिन्नर्धदग्धशरीर: स्फुटितदृष्टिः करुणमाक्रन्दन्दुष्टबुद्धिपिता किंचि-

च्छेपजीवितो वृक्षकोटरान्निःसृत्य भूमौ निपतितः । ततः सविस्मयं सर्वैर्दृष्टः