2023-02-21 16:54:59 by ambuda-bot
This page has not been fully proofread.
कथा १३]
धर्मबुद्धिदुष्टबुद्धिकथा
४३
स आह । अस्मिन् वृक्षकोटरेऽद्य रात्रौ प्रविश्यादृश्यीय स्थीयताम् । प्रात-
धर्माधिकृतैः पृष्ठे वक्तयम् । धर्मबुद्धिना तद्धनं गृहीतमिति । ततस्तेनाभिहि-
तम् । पुत्र विनष्टावावाम् । यत्कारणम् । अनुपाय एषः । साधु चेदमुच्यते ।
उपायं चिन्तयेत्प्राज्ञो हापायमपि चिन्तयेत् ।
पश्यतो बकमूर्खस्य नकुलैक्षिताः सुताः ॥ १५९ ॥
सोऽब्रवीत् । कथं चैतत् । पिताह ।
5
अथ बकसर्पनकुलकथा नाम चतुर्दशी कथा ।
।
अस्ति कस्मिंश्चिदर्जनवृने बकदम्पती प्रतिवसतः स्म । तत्र च तद्वृक्ष-
विवरानुसारी महाकाय: सर्पो यावन्ति वकापत्यानि भवन्ति तावन्त्येवासं
जातपक्षाणि भक्षयति स्म । तेन च निर्वेदेन नष्टसंज्ञ आहारक्रियामुत्सृज्य सर - 10
स्तीरं गत्वा बको विमनस्क आस्ते । अथ तत्रैकः कुलीरकस्तं ष्वाह । माम
किमयोद्विग्नो भवानिति । स तु तस्मै यथावृत्तमपत्यभक्षणमाख्यातवान् ।
कुलीरकस्तु तं समर्थितवान् । भद्र अहमुपायं तद्वधाय ते कथयामि । येयं नकुल-
वसतिरेतत्प्रभृत्याविछिन्नपरंपरया सर्पविवरं यावन् मत्स्यपिशितं प्रकीर्यताम् ।
ततस्तदाहारलुब्धैर्नकुलैरय मागत्यात्र द्रष्टव्यः स्वभावविद्वेषाद्वयापादयितव्यञ्च 15
तथा चानुष्ठिते नकुलैर्मत्स्यमांसमार्गानुसारिभिः पूर्ववैरक्रियामनुस्मरद्भिः
सर्प व्यापाद्य पूर्वदृष्टमार्गमाधावद्भिस्तदवृक्षे बकावासं गत्वा बकापत्यानि
भक्षितानि ।
।
इति चतुर्दशी कथा समाप्ता ।
अतोऽहं ब्रवीमि । उपायं चिन्तयेत्प्राज्ञ इति । एतत्वापि लोभा- 20
कान्तेन दुष्टबुद्धिना बलाद्रात्रौ नीत्वा पिता वृक्षकोटरे स्थापितः । अथ
प्रभातसमये धर्माधिकरणप्रकृतिप्रत्यक्षं धर्मशास्त्रवचनाभिश्राविताद्वनस्पते-
निःसृता वाक् । धर्मबुद्धिनैतद्धनमपहृतम् । तञ्च श्रुत्वा धर्मबुद्धिर चिन्तयत् ।
कथमेतदसत्यमलौकिकमापतितम् । तदहमिममेव वृक्षमारुह्य निरीक्षयामि । इति
निरीक्ष्याहार्यैः शुष्कदारुपर्ण निचयैर्वृक्ष विवरमा पूर्याग्निमादीपयितुमारब्धः । अथ 25
ज्वलति तस्मिन्नर्धदग्धशरीर: स्फुटितदृष्टिः करुणमाक्रन्दन्दुष्टबुद्धिपिता किंचि-
च्छेपजीवितो वृक्षकोटरान्निःसृत्य भूमौ निपतितः । ततः सविस्मयं सर्वैर्दृष्टः