This page has been fully proofread once and needs a second look.

स्वभाग्यप्रचोदितं रौप्यदीनारसहस्रं प्राप्तम् । स तु दुष्टबुद्धिना सह संप्रधार्य
कृतार्थावावां तद्गृहीत्वा स्वनगरं गच्छाव इति निश्चित्य प्रत्यागतौ । अधि-
ष्ठानसमीपे धर्मबुद्धिनाभिहितम् । दीनारा अर्धविभागेन विभज्यन्तां स्वगृ-
हान् प्रविशावोऽधुना सुहृत्स्वजनादिसमक्षमुज्ज्वलं वत्स्यावः । अथ दुष्ट-
बुद्धिरन्तःकुटिलहृदयः स्वार्थसिद्धये तमाह । भद्र वित्तशेषो यावदावयोः
सामान्यस्तावदविच्छिन्नः स्नेहसद्भावः । किं त्वेकमेकं शतं गृहीत्वा शेषमिहैव
भूमौ निक्षिप्य स्वगृहं प्रविशावो भूयोऽपि प्रयोजने संजाते तन्मात्रं समेत्या-
स्मात् स्थानान्नेष्यावः । तेनोक्तम् । यथाह भवान् । तथा चानुष्ठिते शेषं
वृक्षमूले भूमौ सुगुप्तं कृत्वा स्वगृहं प्रविष्टौ । अथ तद्वर्षाभ्यन्तरे दुष्टबुद्धिरस-
द्व्ययव्यसनित्वाद्भाग्यछिद्रतया च क्षीणप्रत्यंशः पुनरपि च निधितो धर्मबुद्धि-
ना सहापरं शतं शतं विभक्तवान् । तदपि द्वितीयवर्षाभ्यन्तरे तथैव क्षीणम् ।
एवं गते दुष्टबुद्धिश्चिन्तयामास । यदि पुनस्तेन सह शतं विभजामि ततः
शेषैश्चतुर्भिः शतैरपहृतैरपि किमल्पैः । शेषैः <flag>पड्भिरपहृतैः</flag> समस्तान्येवासाद-
यामि । इति निश्चित्यैकाकी भूत्वा तामर्थमात्रामपनीय तं भूप्रदेशं समीकृत-
वान् । अतिक्रान्ते च मासमात्रे स्वयं गत्वा धर्मबुद्धिमभिहितवान् । भद्र ।
अस्ति मे व्ययः । एहि समविभागं शेषस्य वित्तस्य कुर्व इति । प्रतिपन्ने च
धर्मबुद्धिना सह गत्वा तमेवोद्देशं खातकर्म कर्तुमारब्धः । खन्यमाने च
भूभागे यदासावर्थो न दृश्यते तदा प्रथमतरं धृष्टतया दुष्टबुद्धि:धिः पाषाणेना-
त्मनः शिरोऽताडयदब्रवीच्च ससंभ्रमम् । भो धर्मबुद्धे त्वयैवापहृत-
मेतद्धनं नान्येन । तत् प्रयच्छ मे तस्यार्धम् । स आह । नैतच्चौर्यकर्माचरामि
त्वयापहृतमिति । एवं परस्परं विवदमानौ राजकुलमुपागतौ । आवेदिते च
तस्मिन्नर्थेऽवगतेऽव्यक्तव्यवहारदुश्छेदतया धर्माधिकृतैः संनिरुद्धौ । पञ्चरात्रा-
भ्यन्तराच्च दुष्टबुद्धिनाधिकृतानां प्रतिज्ञातम् । साक्षी ममास्त्यत्र व्यवहारे दीना-
राणाम् । इदानीं पृच्छ्यतामिति । तैस्तु व्यवहारनिवर्तनार्थं पृष्टः । कस्ते साक्षी
दर्शयस्वेति । सोऽब्रवीत् । यस्यैव वृक्षस्य मूले स्थापितं द्रव्यं स एव वृक्षः
साक्षीति । अथ तैर्धर्माधिकृतैर्विस्मयादभिहितम् । कथं वनस्पतिर्मन्त्रयिष्यति ।
भवतु परस्मिन् दिने प्रतिपादयिष्यतीति । कृतप्रतिभुवौ द्वावपि स्वगृहं विस-
र्जितौ । अथ दुष्टबुद्धिना स्वगृहं गत्वा पिता याचितः । तात मद्धस्तगतास्ते
दीनाराः । किं तु तव वाङ्मात्रावबद्धास्तिष्ठन्ति । पिताह । किमत्र कार्यम् ।