This page has not been fully proofread.

मित्रभेदम्
 
[ तन्त्रम् १
 

 
स्वभाग्यप्रचोदितं रौप्यदीनारसहस्रं प्राप्तम् । स तु दुष्टबुद्धिना सह संप्रधार्य
कृतार्थावावां तद्गृहीत्वा स्वनगरं गच्छाव इति निश्चित्य प्रत्यागतौ । अधि-
ष्ठानसमीपे धर्मबुद्धिनाभिहितम् । दीनारा अर्धविभागेन विभज्यन्तां स्वगृ-
हान् प्रविशावोऽधुना सुहृत्स्वजनादिसमक्षमुज्ज्वलं वत्स्यावः । अथ दुष्ट-
5 बुद्धिरन्तः कुटिलहृदयः स्वार्थसिद्धये तमाह । भद्र वित्तशेपो यावदावयोः
सामान्यस्तावदविच्छिन्नः स्नेहसद्भावः । किं त्वेकमेकं शतं गृहीत्वा शेपमिदैव
भूमौ निक्षिप्य स्वगृहं प्रविशावो भूयोऽपि प्रयोजने सजाते तन्मात्रं समेत्या-
स्मात् स्थानान्नध्यावः । तेनोक्तम् । यथाह भवान् । तथा चानुष्ठिते शेपं
वृक्षमूले भूमौ सुगुप्तं कृत्वा स्वगृहं प्रविष्टौ । अथ तद्वर्षाभ्यन्तरे दुष्टबुद्धिरस-
10 द्व्ययव्यसनित्वाद्भाग्यछिद्रतया च क्षीणप्रत्यंशः पुनरपि च निधितो धर्मबुद्धि-
ना सहापरं शतं शतं विभक्तवान् । तदपि द्वितीयवर्पाभ्यन्तरे तथैव क्षीणम् ।
एवं गते दुष्टबुद्धिश्चिन्तयामास । यदि पुनस्तेन सह शतं विभजामि ततः
शेषैश्चतुर्भिः शतैरपहृतैरपि किमल्यैः । शेषैः परिपहृतैः समस्तान्येवासाद-
यामि । इति निश्चित्यैकाकी भूत्वा तामर्थमालामपनीय तं भूप्रदेशं समीकृत-
15 वान् । अतिक्रान्ते च मासमात्रे स्वयं गत्वा धर्मबुद्धिमभिहितवान् । भद्र ।
अस्ति मे व्ययः । एहि समविभाग शेषस्य वित्तस्य कुर्व इति । प्रतिपन्ने च
धर्मबुद्धिना सह गत्वा तमेवोद्देशं खातकर्म कर्तुमारब्धः । खन्यमाने च
भूभागे यदास।वर्थो न दृश्यते तदा प्रथमतरं धृष्टतया दुष्टबुद्धि: पापाणेना-
त्मनः शिरोऽताडयदनवीच ससंभ्रमम् । भो धर्मबुद्धे त्वयैवापहृत-
20 मेतद्धनं नान्येन । तत् प्रयच्छ मे तस्यार्धम् । स आह । नैतञ्चौर्यकर्माचरामि
त्वयापहृतमिति । एवं परस्परं विवदमानौ राजकुलमुपागतौ । आवेदिते च
तस्मिन्नर्थेऽवगतेऽव्यक्तव्यवहारदुछेदतया धर्माधिकृतैः संनिरुद्धौ । पचरात्रा-
भ्यन्तराच्च दुष्टबुद्धिनाधिकृतानां प्रतिज्ञातम्। साक्षी ममास्त्यत्र व्यवहारे दीना-
राणाम् । इदानीं पृच्छयतामिति । तैस्तु व्यवहार निवर्तनार्थं पृष्टः । करते साक्षी
25 दर्शयस्वेति । सोऽब्रवीत् । यस्यैव वृक्षस्य मूळे स्थापितं द्रव्यं स एव वृक्षः
साक्षीति । अथ तैर्धर्माधिकृतैर्विस्मयादभिहितम् । कथं वनस्पतिर्मन्त्रयिष्यति ।
भवतु परस्मिन् दिने प्रतिपादयिष्यतीति । कृतप्रतिमुवौ द्वाबपि स्वगृहं विस-
जितौ । अथ दुष्टबुद्धिना स्वगृहं गत्वा पिता याचितः । तात मजूस्तगतास्ते
दीनाराः । किं तु तव वाङ्मालाबबद्धा स्तिष्ठन्ति पिताह । किमन्त्र कार्यम् ।
 
४२