This page has been fully proofread once and needs a second look.

किं बहुना तावत्तेन कर्णाभ्याशमागत्यागत्य प्रबलमुद्वेजितो यावत्तेन कुपितेन
सहसा गृहीत्वा शिलायामाविध्य विगतप्राणः कृतोऽसौ ।
 
इति द्वादशी कथा समाप्ता ।
 
अतोऽहं ब्रवीमि । नानाम्यं नाम्यते दार्विति । अथवा
 
किं करिष्यति पाण्डित्यमपात्रे प्रतिपादितम् ।
सपिधाने धृतः कुम्भे प्रदीप इव वेश्मनि ॥ १५२ ॥
 
तन्नूनमपजातस्त्वम् । उक्तं च
 
जातः पुत्रोऽनुजातश्च अभिजातस्तथैव च ।
अपजातश्च लोकेऽस्मिन् मन्तव्याः शास्त्रदृष्टिभिः ॥ १५३ ॥
 
मातृतुल्यगुणो जातस्त्वनुजातः पितुः समः ।
अभिजातोऽधिकस्तस्मादपजातोऽधमाधमः ॥ १५४ ॥
 
साधु चेदमुच्यते ।
 
प्रज्ञयातिविसारिण्या यो धनेन बलेन च ।
धुरं वहति गोत्रस्य जननी तेन पुत्रिणी ॥ १५५ ॥
 
अपि च
 
आपातमात्रसौन्दर्यं कुत्र नाम न विद्यते ।
अत्यन्तप्रतिपत्त्या तु दुर्लभोऽलंकृतो जनः ॥ १५६ ॥
 
तन्मूर्ख न किंचिदभिवदसि । उक्तं च
 
भिन्नस्वरमुखवर्णः शङ्कितदृष्टिः समुत्पतितदेहः ।
भवति हि पापं कृत्वा स्वकर्मसंत्रासितः पुरुषः ॥ १५७ ॥
 
साधु चेदमुच्यते ।
 
दुष्टबुद्धिरबुद्धिश्च द्वावेतौ धिङ्मतौ मम ।
तनयेनातिपाण्डित्यात् पिता धूमेन मारितः ॥ १५८ ॥
 
दमनक आह । कथं चैतत् । करटकोऽब्रवीत् ।
 
अथ धर्मबुद्धिदुष्टबुद्धिकथा नाम त्रयोदशी कथा ।
 
अस्ति कस्मिंश्चिन्नगरे वणिक्पुत्रौ प्रियसुहृदौ धर्मबुद्धिदुष्टबुद्धि-
नामानौ स्तः । तावर्थोपार्जननिमित्तं विप्रकृष्टं देशान्तरं गतौ । अथ तत्र
धर्मबुद्धिर्नाम यः सार्थवाहसुतस्तेन कस्यचित्साधोः पूर्वस्थापितं कलशिकागतं