This page has been fully proofread once and needs a second look.

कथा १२ ]
 
शाखामृगपक्षिकथा
 
४१
 
किं बहुना तावत्तेन कर्णाभ्याशमागत्यागत्य प्रबलमुद्वेजितो यावत्तेन कुपितेन

सहसा गृहीत्वा शिलायामाविध्य विगतप्राणः कृतोऽसौ ।

 
इति द्वादशी कथा समाप्ता ।
 

 
अतोऽहं ब्रवीमि । नानाम्यं नाम्यते दार्विति । अथवा

 
किं करिष्यति पाण्डित्यमपात्रे प्रतिपादितम् ।

सपिधाने धृतः कुम्भे प्रदीप इव वेश्मनि ॥ १५२ ॥

 
तन्नूनमपजातस्त्वम् । उक्तं च
 

 
जातः पुत्रोऽनुजातश्च अभिजातस्तथैव च ।
 

अपजातश्च लोकेऽस्मिन् मन्तव्याः शास्त्रदृष्टिभिः ॥ १५३ ॥

 
मातृतुल्यगुणो जातस्त्वनुजातः पितुः समः ।

अभिजातोऽधिकस्तस्मादपजातोऽधमाधमः ॥ १५४ ॥

 
साधु चेदमुच्यते ।
 

 
प्रज्ञयातिविसारिण्या यो धनेन बलेन च ।

धुरं वहति गोत्रस्य जननी तेन पुत्रिणी ॥ १५५ ॥
 

 
अपि च
 

 
आपातमात्रसौन्दर्यं कुत्र नाम न विद्यते ।

अत्यन्तप्रतिपत्त्या तु दुर्लभोऽलंकृतो जनः ॥ १५६ ॥

 
तन्मूर्ख नं किंचिदद्भिवदसि । उक्तं च
 

 
भिन्नस्वरमुखवर्णः शतिङ्कितदृष्टिः समुत्पतिदेहः ।

भवति हि पापं कृत्वा स्वकर्मसंत्रासितः पुरुषः ॥ १५७ ॥

 
साधु चेदमुच्यते ।
 

 
दुष्टबुद्धिबुद्धिश्च द्वावेतौ धिङ्मतौ मम ।

तनयेनातिपाण्डित्यात् पिता धूमेन मारितः ॥ १५८ ॥

 
दमनक आ । कथं चैतत् । करटकोऽब्रवीत् ।
 

 
अथ धर्मबुद्धिदुष्टबुद्धिकथा नाम त्रयोदशी कथा ।

 
अस्ति कस्मिंश्चिन्नगरे वणिक्पुत्रौ प्रियसुहृदौ धर्मबुद्धिदुष्टबुद्धि-

नामानौ स्तः । तावर्थोपार्जननिमित्तं विप्रकृष्टं देशान्तरं गतौ । अथ तत्र

धर्मबुद्धिर्नाम यः सार्थवाहसुतस्तेन कस्य चित्साघोःधोः पूर्वस्थापितं कलाशलशिकागतं
 
5
 
10
 
15
 
20
 
25