This page has not been fully proofread.

कथा १२ ]
 
शाखामृगपक्षिकथा
 
४१
 
किंबहुना तावत्तेन कर्णाभ्याशमागत्यागत्य प्रबलमुद्वेजितो यावत्तेन कुपितेन
सहसा गृहीत्वा शिलायामाविध्य विगतप्राणः कृतोऽसौ ।
इति द्वादशी कथा समाप्ता ।
 
अतोऽहं ब्रवीमि । नानाम्यं नाम्यते दार्विति । अथवा
किं करिष्यति पाण्डित्यमपात्रे प्रतिपादितम् ।
सपिधाने धृतः कुम्भे प्रदीप इव वेश्मनि ॥ १५२ ॥
तन्नूनमपजातस्त्वम् । उक्तं च
 
जातः पुत्रोऽनुजातच अभिजातस्तथैव च ।
 
अपजातच लोकेऽस्मिन् मन्तव्याः शास्त्रदृष्टिभिः ॥ १५३ ॥
मातृतुल्यगुणो जातस्त्वनुजातः पितुः समः ।
अभिजातोऽधिकस्तस्मादपजातोऽधमाधमः ॥ १५४ ॥
साधु चेदमुच्यते ।
 
प्रज्ञयातिविसारिण्या यो धनेन बलेन च ।
धुरं वहति गोत्रस्य जननी तेन पुत्रिणी ॥ १५५ ॥
 
अपि च
 
आपातमात्रसौन्दर्य कुत्र नाम न विद्यते ।
अत्यन्तप्रतिपत्त्या तु दुर्लभोऽलंकृतो जनः ॥ १५६ ॥
तन्मूर्ख नं किंचिदद्भिवदसि । उक्तं च
 
भिन्नस्वरमुखवर्णः शतिदृष्टिः समुत्पतिदेहः ।
भवति हि पापं कृत्वा स्वकर्मसंत्रासितः पुरुषः ॥ १५७ ॥
साधु चेदमुच्यते ।
 
दुष्टबुद्धिबुद्धिश्च द्वावेतौ धितौ मम ।
तनयेनातिपाण्डित्यात् पिता धूमेन मारितः ॥१५८ ॥
दमनक आइ । कथं चैतत् । करटकोऽनवीत् ।
 
अथ धर्मबुद्धिदुष्टबुद्धिकथा नाम त्रयोदशी कथा ।
अस्ति कस्मिंश्चिन्नगरे वणिकपुत्रौ प्रियसुहृदौ धर्मबुद्धिदुष्टबुद्धि-
नामानौ स्तः । तावर्थोपार्जननिमित्तं विप्रकृष्टं देशान्तरं गतौ । अथ तत्र
धर्मबुद्धिर्नाम यः सार्थवाहसुतस्तेन कस्य चित्साघोः पूर्वस्थापितं कलाशकागतं
 
5
 
10
 
15
 
20
 
25