This page has been fully proofread once and needs a second look.

लघोर्विकारस्तनुनापि हेतुना
चलन्ति दर्भा:भाः शिथिलेऽपि मारुते ॥ १४७ ॥
 
अथवा स्वामिन एवैष दोषो यद्युष्मद्विधैर्मन्त्रमात्रव्यपदेशकेवलोपजी-
विभिः षाड्गुण्योपायेऽत्यन्तबाह्यैस्त्रिवर्गप्राप्त्यर्थमसमीक्ष्य मन्त्रयते । साधु
चेदमुच्यते ।
 
चित्रस्वादुकथैर्भृत्यैरनायासितकार्मुकैः ।
ये रमन्ते नृपास्तेषां रमन्ते रिपवः श्रिया ॥ १४८ ॥
 
तत्सर्वथा विभावितं त्वयात्मीयमन्वयागतं मन्त्रित्वमनेनानुष्ठानेन ।
नूनं तव पिताप्येवंलक्षण एवासीत् । कथं पुनरेतज्ज्ञायते । यतः
 
अवश्यं पितुराचारं पुत्रः समनुवर्तते ।
न हि केतकवृक्षस्य भवत्यामलकीफलम् ॥ १४९ ॥
 
न च स्वभावगम्भीराणां विदुषां परेणागमरन्ध्रान्तरं लभ्यते बहुना
कालेनापि यदि स्वयमेव चापलादात्मनश्छिद्रं न प्रकाशयेयुः । साधु चेद-
मुच्यते ।
 
यत्नादपि कः पश्येच्छिखिनामाहारनिःसरणमार्गम् ।
यदि जलदध्वनिमुदितास्त एव मूढा न नृत्येयुः ॥ १५० ॥
 
तत्सर्वथा किं तवोपदेशेनापसदस्य । उक्तं च
 
नानाम्यं नाम्यते दारु न शस्त्रं वहतेऽश्मनि ।
सूचीमुखं विजानीहि नाशिष्यायोपदिश्यते ॥ १५१ ॥
 
दमनक आह । कथं चैतत् । करटक आह ।
 
अथ शाखामृगखद्योतपक्षिकथा नाम द्वादशी कथा ।
 
अस्ति कस्मिंश्चिद्वनोद्देशे वानरयूथम् । तत्र कदाचिद्धेमन्तकाले
शीतार्तमतिविह्वलतया खद्योतं दृष्ट्वाग्निरयमिति मत्वाहार्यैः शुष्कदारुतृणपर्णै-
राछाद्य प्रसारितभुजं कक्षकुभिवक्षःप्रदेशान् कण्डूयमानं तापमनोरथसुखं
किलानुभवति स्म । अथ तत्रैकः शाखामृगो विशेषत:तः शीतार्तस्तद्गतमना
मुहुर्मुहुस्तमेव मुखेनोपाधमत् । अथ सूचीमुखो नाम पक्षी तद्दृष्ट्वा वृक्षादव-
तीर्याभिधत्ते । भद्र मा क्लिश्यतां नायं वह्निः खद्योतोऽयमिति । अथासौ
तद्वचनमनादृत्य पुनर्धमति । पुनश्च तेनासकृन्निवार्यमाणोऽपि नैव शाम्यति ।