2023-04-04 16:50:25 by Alok Kumar
This page has been fully proofread once and needs a second look.
लघोर्विकारस्तनुनापि हेतुना
चलन्ति दर्भा: शिथिलेऽपि मारुते ॥ १४७ ॥
अथवा स्वामिन एवैष दोषो यद्युष्मद्विधैर्मन्त्रमात्रव्यपदेशकेवलोपजी-
विभिः षाड्गुण्योपायेऽत्यन्तबाह्यैस्त्रिवर्गप्राप्त्यर्थमसमीक्ष्य मन्त्रयते । साधु
चेदमुच्यते ।
चित्रस्वादुकथैर्भृत्यैरनायासितकार्मुकैः ।
ये रमन्ते नृपास्तेषां रमन्ते रिपवः श्रिया ॥ १४८ ॥
तत्सर्वथा विभावितं त्वयात्मीयमन्वयागतं मन्त्रित्वमनेनानुष्ठानेन ।
नूनं तव पिताप्येवंलक्षण एवासीत् । कथं पुनरेतज्ज्ञायते । यतः
अवश्यं पितुराचारं पुत्रः समनुवर्तते ।
न हि केतकवृक्षस्य भवत्यामलकीफलम् ॥ १४९ ॥
न च स्वभावगम्भीराणां विदुषां परेणागमरन्ध्रान्तरं लभ्यते बहुना
कालेनापि यदि स्वयमेव चापलादात्मनश्छिद्रं न प्रकाशयेयुः । साधु चेद-
मुच्यते ।
यत्नादपि कः पश्येच्छिखिनामाहारनिःसरणमार्गम् ।
यदि जलदध्वनिमुदितास्त एव मूढा न नृत्येयुः ॥ १५० ॥
तत्सर्वथा किं तवोपदेशेनापसदस्य । उक्तं च
नानाम्यं नाम्यते दारु न शस्त्रं वहतेऽश्मनि ।
सूचीमुखं विजानीहि नाशिष्यायोपदिश्यते ॥ १५१ ॥
दमनक आह । कथं चैतत् । करटक आह ।
अथ शाखामृगखद्योतपक्षिकथा नाम द्वादशी कथा ।
अस्ति कस्मिंश्चिद्वनोद्देशे वानरयूथम् । तत्र कदाचिद्धेमन्तकाले
शीतार्तमतिविह्वलतया खद्योतं दृष्रि ट्वाग्निरयमिति मत्वाहार्यैः शुष्कदारुतृणपर्णेणै-
राछाद्य प्रसारितभुजं कक्षकुभिवक्षः प्रदेशानन् कण्डूयमानं तापमनोरथसुखं
25 किलानुभवति स्म । अथःथ तत्रैकः शाखामृगो विशेषत: शीतार्तस्तद्द्व्रतमना
गतमना
मुहुर्मुहुस्तमेव मुखेनोपाधमत् । अथ सूचीमुखो नाम पक्षी तहाद्दृष्ट्वा वृक्षावृषदव-
तीर्यामिभिधत्ते । भद्र मा हिक्लिश्यतां नायं बाहःवह्निः खद्योतोऽयमिति । अथासो
सहजसौ
तद्वचनमनादृत्य पुनर्धमति । पुनश्च तेनासकभिषाकृन्निवार्यमाणोऽपि नैव शाम्यति ।
चलन्ति दर्भा: शिथिलेऽपि मारुते ॥ १४७ ॥
अथवा स्वामिन एवैष दोषो यद्युष्मद्विधैर्मन्त्रमात्रव्यपदेशकेवलोपजी-
विभिः षाड्गुण्योपायेऽत्यन्तबाह्यैस्त्रिवर्गप्राप्त्यर्थमसमीक्ष्य मन्त्रयते । साधु
चेदमुच्यते ।
चित्रस्वादुकथैर्भृत्यैरनायासितकार्मुकैः ।
ये रमन्ते नृपास्तेषां रमन्ते रिपवः श्रिया ॥ १४८ ॥
तत्सर्वथा विभावितं त्वयात्मीयमन्वयागतं मन्त्रित्वमनेनानुष्ठानेन ।
नूनं तव पिताप्येवंलक्षण एवासीत् । कथं पुनरेतज्ज्ञायते । यतः
अवश्यं पितुराचारं पुत्रः समनुवर्तते ।
न हि केतकवृक्षस्य भवत्यामलकीफलम् ॥ १४९ ॥
न च स्वभावगम्भीराणां विदुषां परेणागमरन्ध्रान्तरं लभ्यते बहुना
कालेनापि यदि स्वयमेव चापलादात्मनश्छिद्रं न प्रकाशयेयुः । साधु चेद-
मुच्यते ।
यत्नादपि कः पश्येच्छिखिनामाहारनिःसरणमार्गम् ।
यदि जलदध्वनिमुदितास्त एव मूढा न नृत्येयुः ॥ १५० ॥
तत्सर्वथा किं तवोपदेशेनापसदस्य । उक्तं च
नानाम्यं नाम्यते दारु न शस्त्रं वहतेऽश्मनि ।
सूचीमुखं विजानीहि नाशिष्यायोपदिश्यते ॥ १५१ ॥
दमनक आह । कथं चैतत् । करटक आह ।
अथ शाखामृगखद्योतपक्षिकथा नाम द्वादशी कथा ।
अस्ति कस्मिंश्चिद्वनोद्देशे वानरयूथम् । तत्र कदाचिद्धेमन्तकाले
शीतार्तमतिविह्वलतया खद्योतं दृष्
राछाद्य प्रसारितभुजं कक्षकुभिवक्षः
मुहुर्मुहुस्तमेव मुखेनोपाधमत् । अथ सूचीमुखो नाम पक्षी त
तीर्या
सहज
तद्वचनमनादृत्य पुनर्धमति । पुनश्च तेनास