This page has been fully proofread once and needs a second look.

४०
 
मित्रभेदम्
 
20
 
लघोर्विकारस्तनुनापि हेतुना
 

चलन्ति दर्भा: शिथिलेऽपि मारुते ॥ १४७ ॥
 
[ तन्त्रम् १
 

 
अथवा स्वामिन एवैष दोषो यदुद्युष्मद्विधैर्मन्त्रमात्रव्यपदेशकेवलोपजी-

विभिः षाड्गुण्योपायेऽत्यन्तबाद्यौस्त्रह्यैस्त्रिवर्गप्राप्त्यर्थमसमीक्ष्य मन्त्रयते । साधु
5

चेदमुच्यते ।
 

 
चित्रस्वादुकथैर्भूभृत्यैर नायासितकार्मुकैः ।
 

ये रमन्ते नृपास्तेषां रमन्ते रिपवः श्रिया ॥ १४८ ॥

 
तत्सर्वथा विभावितं त्वयात्मीयमन्वयागतंःतं मन्त्रित्वमनेनानुष्ठानेन ।

नूनं तव पिताप्येवंलक्षण एवासीत् । कथं पुनरेतज्ज्ञायते । यतः

 
अवश्यं पितुराचारं पुत्रः समनुवर्तते ।
 
10
 

न हि केतकवृक्षस्य भवत्यामलकीफलम् ॥ १४९ ॥
 

 
न च स्वभावगम्भीराणां विदुषां परेणागमरन्ध्रान्तरं लभ्यते बहुना

कालेनापि यदि स्वयमेव चापलादात्मनश्छिद्रं न प्रकाशयेयुः । साधु चेद-

मुच्यते ।
 
15
 

 
यत्नादपि कः पश्येच्छिखिनामाहारराने: निःसरणमार्गम् ।

यदि जलदध्वनिमुदितास्त एव मूढा न नृत्येयुः ॥ १५० ॥

 
तत्सर्वथा किं तवोपदेशेनापसदस्य । उक्तं च
 

 
नानाम्यं नाम्यते दारु न शस्त्रं हतेऽश्मनि ।

सूचीमुखं विजानीहि नाशिष्यायोपदिश्यते ॥ १५१ ॥

 
दमनक आह । कथं चैतत् । करटक आह ।
 

 
अथ शाखामृगखद्योतपक्षिकथा नाम द्वादशी कथा ।
 

 
अस्ति कस्मिंश्विनीचिद्वनोद्देशे वानरयूथम् । तब कहात्र कदाचिद्धेमन्तकाले

शीतार्तमतिविह्वलतया खद्योतं दृष्टारि यमिति मत्वाहार्यैः शुष्कदारुतृणपर्णे-

राछाद्य प्रसारितभुजं कक्षकुभिवक्षः प्रदेशान कण्डूयमानं तापमनोरथसुखं

25 किलानुभवति स्म । अथः तत्रैकः शाखामृगो विशेषत: शीतार्तस्तद्द्व्रतमना
 

 
मुहुर्मुहुस्तमेव मुखेनोपाधमत् । अथ सूचीमुखो नाम पक्षी तहा वृक्षावृष-

तीर्यामिधत्ते । भद्र मा हिश्यतां नायं बाहःखद्योतोऽयमिति । अथासो

सहजनमनादृत्य पुनर्धमति । पुनश्च तेनासकभिषार्यमाणोऽपि नैव शाम्यति ।