2023-02-21 16:54:59 by ambuda-bot
This page has not been fully proofread.
४०
मित्रभेदम्
20
लघोर्विकारस्तनुनापि हेतुना
चलन्ति दर्भा: शिथिलेऽपि मारुते ॥ १४७ ॥
[ तन्त्रम् १
अथवा स्वामिन एवैष दोषो यदुष्मद्विधैर्मन्त्रमात्रव्यपदेशकेवलोपजी-
विभिः षाड्गुण्योपायेऽत्यन्तबाद्यौस्त्रवर्गप्राप्त्यर्थमसमीक्ष्य मन्त्रयते । साधु
5 चेदमुच्यते ।
चित्रस्वादुकथैर्भूत्यैर नायासितकार्मुकैः ।
ये रमन्ते नृपास्तेषां रमन्ते रिपवः श्रिया ॥ १४८ ॥
तत्सर्वथा विभावितं त्वयात्मीयमन्वयागतंः मन्त्रित्वमनेनानुष्ठानेन ।
नूनं तव पिताप्येवलक्षण एवासीत् । कथं पुनरेतज्ज्ञायते । यतः
अवश्यं पितुराचारं पुत्रः समनुवर्तते ।
10
न हि केतकवृक्षस्य भवत्यामलकीफलम् ॥ १४९ ॥
न च स्वभावगम्भीराणां विदुषां परेणागमरन्ध्रान्तरं लभ्यते बहुना
कालेनापि यदि स्वयमेव चापलादात्मनश्छिद्रं न प्रकाशयेयुः । साधु चेद-
मुच्यते ।
15
यत्नादपि कः पश्येच्छिखिनामाहारराने: सरणमार्गम् ।
यदि जलदध्वनिमुदितास्त एव मूढा न नृत्येयुः ॥ १५० ॥
तत्सर्वथा किं तवोपदेशेनापसदस्य । उक्तं च
नानाम्यं नाम्यते दारु न शस्त्रं बहतेऽश्मनि ।
सूचीमुखं विजानीहि नाशिष्यायोपदिश्यते ॥ १५१ ॥
दमनक आह । कथं चैतत् । करटक आह ।
अथ शाखामृगखद्योतपक्षिकथा नाम द्वादशी कथा ।
अस्ति कस्मिंश्विनीदेशे वानरयूथम् । तब कहाचिद्धेमन्तकाले
शीतार्तमतिविह्वलतया खद्योतं दृष्टारियमिति मत्वाहार्यैः शुष्कदारुतृणपर्णे-
राछाद्य प्रसारितभुजं कक्षकुभिवक्षः प्रदेशान कण्डूयमानं तापमनोरथसुखं
25 किलानुभवति स्म । अथः तत्रैकः शाखामृगो विशेषत: शीतार्तस्तद्द्व्रतमना
मुहुर्मुहुस्तमेव मुखेनोपाधमत् । अथ सूचीमुखो नाम पक्षी तहा वृक्षावृष-
तीर्यामिधत्ते । भद्र मा हिश्यतां नायं बाहःखद्योतोऽयमिति । अथासो
सहजनमनादृत्य पुनर्धमति । पुनश्च तेनासकभिषार्यमाणोऽपि नैव शाम्यति ।