This page has been fully proofread once and needs a second look.

तन्मूढ सर्वस्तावत् स्वामिनो गुणवत्परिग्रहं करोति । त्वद्विधेन तु
पिशुनवचसा भेदः कृतः स्वामिनो मित्रविश्लेषश्च । कुतः स्वामिनो गुणवत्स-
हायसंपत् । उक्तं च
 
गुणवानप्यसन्मन्त्री नृपतिर्नाधिगम्यते ।
प्रसन्नस्वादुसलिलो दुष्टग्राहो यथा ह्रदः ॥ १४१ ॥
 
त्वं तु प्रायश आत्मविभूत्यर्थं विविक्तमेव राजानं कर्तुमिच्छसि ।
तन्मूर्ख किं न वेत्सि ।
 
आकीर्णः शोभते राजा न विविक्तः कदाचन ।
ये तं विविक्तमिच्छन्ति ते तस्य रिपवः स्मृताः ॥ १४२ ॥
 
त्वं चैतन्नावबुध्यसे । तदसंशयाकृतिविसंवाद एव प्रजापतेः । कस्मात्
 
परुषे हितमन्वेष्यं तच्चेदस्त्यमृतं हि तत् ।
मधुरे शाठ्यमन्वेष्यं तच्चेदस्ति विषं हि तत् ॥ १४३ ॥
 
यदपि च परसुखोपभोगेर्ष्यया दुःखितोऽसि तदपि न साधु लब्धस-
द्भावेषु मित्रेष्वेवं वर्तितुम् । यतः
 
शाठ्येन मित्रं कपटेन धर्मं
परोपतापेन समृद्धिभावम् ।
सुखेन विद्यां परुषेण नारीं
वाञ्छन्ति ये नूनमपण्डितास्ते ॥ १४४ ॥
 
तथा
 
यैव भृत्यगता संपद्विभूतिः सैव भूपतेः ।
रत्नोद्भासिभिरुद्भूतैः कस्तरङ्गैर्विनोदधिः ॥ १४५ ॥
 
यश्च स्वामिनो लब्धप्रसादो भवति स नितरां विनीततरः स्यात् ।
उक्तं च
 
यथा यथा प्रसादेन भर्ता भृत्यस्य वर्तते ।
तथा तथा सशङ्कस्य गतिर्निम्नैव शोभते ॥ १४६ ॥
 
तल्लघुधर्मोऽसि । उक्तं च
 
महान् प्रणुन्नो न जहाति धीरतां
न कूलपातैः कलुषो महार्णवः ।