This page has been fully proofread once and needs a second look.

तन्त्रम् १ ]
 
सिंहवृषभकथा
 
३९
 
तन्मूढ सर्वस्तावत् स्वामिनो गुणवत्परिप्ग्रहं करोति । त्वद्विधेन तु

पिशुनवचसा भेदः कृतः स्वामिनो मित्रविश्लेषश्च । कुतः स्वामिनो गुणवत्स-

हायसंपत् । उक्तं च
 
5
 

 
त्वं तु प्रायश आत्मविभूत्यर्थं विविक्तमेव राजानं कर्तुमिच्छसि ।

तन्मूर्ख किं न वेत्सि ।
 

 
आकीर्ण: शोभते राजा न विविक्तः कदाचन ।
 

ये तं विवितमिच्छन्ति ते तस्य रिपवः स्मृताः ॥ १४२ ॥
 

 
त्वं चैतन्नावबुध्यसे । तदसंशयाकृतिविसंवाद एव प्रजापतेः । कस्मात् 10

 
परुपेषे हितमन्वेष्यं तच्चेदस्त्यमृतं हि तत् ।
 

मधुरे शाठ्यमन्वेष्यं तच्चेदस्ति विषं हि तत् ॥ १४३ ॥

 
यदपि च परसुखोपभोगेर्ष्यया दुःखितोऽसि तदपि न साधु लब्धस
-
द्भावेषु मित्रेष्वेवं वर्तितुम् । यतः
 

 
शाठ्येन मित्रं कपटेन धर्
 
मं
परोपतापेन समृद्धिभावम् ।

सुखेन विद्यां परुषेण नारीं
 

वाञ्छन्ति ये नूनमपण्डितास्ते ॥ १४४ ॥
 

 
तथा
 

 
गुणवानप्यसन्मन्त्री नृपतिर्नाधिगम्यते ।
 

 
प्रसन्नस्वादुसलिलो दुष्टग्राहो यथा हृदः ॥ १४१ ॥
 

 
उक्तं च
 
चैत्र

 
यैव
भृत्यगता संपद्विभूतिः सैव भूपतेः ।

रत्नोगा द्भासिभिरुद्भूतैः कस्तरमैङ्गैर्विनोदधिः ॥ १४५ ॥
 

 
यत्र स्वामिनो लम्ब्धप्रसादो भवति स नितरां विनीततर:रः स्यात् ।
 

उक्तं च
 
यथा यथा प्रसादेन भर्ता भृत्यस्य वर्तते ।
 

तथा तथा सशङ्कस्य गतिर्नित्रैम्नैव शोभते ॥ १४६ ॥
 

 
तल्लयुघुधर्मोऽसि । उक्तं च
 

 
महान् प्रणुन्नो न जहाति थीधीरतां

न कूलपातैः कल्पोलुषो महार्णवः ।
 
15
 
20
 
25