This page has not been fully proofread.

तन्त्रम् १ ]
 
सिंहवृषभकथा
 
३९
 
तन्मूढ सर्वस्तावत् स्वामिनो गुणवत्परिप्रहं करोति । त्वद्विधेन तु
पिशुनवचसा भेदः कृतः स्वामिनो मित्रविश्लेषश्च । कुतः स्वामिनो गुणवत्स-
हायसंपत् । उक्तं च
 
5
 
त्वं तु प्रायश आत्मविभूत्यर्थं विविक्तमेव राजानं कर्तुमिच्छसि ।
तन्मूर्ख किं न वेत्सि ।
 
आकीर्ण: शोभते राजा न विविक्तः कदाचन ।
 
ये तं विवितमिच्छन्ति ते तस्य रिपवः स्मृताः ॥ १४२ ॥
 
त्वं चैतन्नावबुध्यसे । तदसंशयाकृतिविसंवाद एव प्रजापतेः । कस्मात् 10
परुपे हितमन्वेष्यं तच्चेदस्त्यमृतं हि तत् ।
 
मधुरे शाठ्यमन्वेष्यं तच्चेदस्ति विषं हि तत् ॥ १४३ ॥
यदपि च परसुखोपभोगेर्यया दुःखितोऽसि तदपि न साधु लब्धस
द्भावेषु मित्रेष्वेवं वर्तितुम् । यतः
 
शाठ्येन मित्रं कपटेन धर्म
 
परोपतापेन समृद्धिभावम् ।
सुखेन विद्यां परुषेण नारीं
 
वाञ्छन्ति ये नूनमपण्डितास्ते ॥ १४४ ॥
 
तथा
 
गुणवानप्यसन्मन्त्री नृपतिर्नाधिगम्यते ।
 
प्रसन्नस्वादुसलिलो दुष्टग्राहो यथा हृदः ॥ १४१ ॥
 
उक्तं च
 
चैत्र भृत्यगता संपद्विभूतिः सैव भूपतेः ।
रत्नोगा सिभिरुद्तैः कस्तरमैर्विनोदधिः ॥ १४५ ॥
 
यत्र स्वामिनो लम्धप्रसादो भवति स नितरां विनीततर: स्यात् ।
 
यथा यथा प्रसादेन भर्ता भृत्यस्य वर्तते ।
 
तथा तथा सशङ्कस्य गतिर्नित्रैव शोभते ॥ १४६ ॥
 
तल्लयुधर्मोऽसि । उक्तं च
 
महान् प्रणुन्नो न जहाति थीरतां
न कूलपातैः कल्पो महार्णवः ।
 
15
 
20
 
25