This page has been fully proofread once and needs a second look.

ये सामदानभेदास्ते किल बुद्धेरनावृतं द्वारम् ।
यस्तु चतुर्थ उपायस्तमाहुरार्याः पुरुषकारम् ॥ १३४ ॥
 
द्विपाशीविषसिंहाग्निजलानिलविवस्वताम् ।
बलं बलवतां दृष्टमुपायाक्रान्तिनिष्फलम् ॥ १३५ ॥
 
प्रवृत्ता बहवः शूराः प्रांशवः पृथुवक्षसः ।
चक्षुष्मन्तोऽप्यबालाश्च किमित्यनुगता गतम् ॥ १३६ ॥
 
यदपि च मन्त्रिपुत्रोऽहमित्यवलेपादतिभूमिं गतोऽसि तदप्यात्म-
विनाशाय ।
 
यां लब्ध्वेन्द्रियनिग्रहो न महता भावेन संपद्यते
या बुद्धेर्न विधेयतां प्रकुरुते धर्मे न या वर्तते ।
लोके केवलवाक्यमात्ररचना यां प्राप्य संजायते
या नैवोपशमाय नापि यशसे विद्वत्तया किं तया ॥ १३७ ॥
 
शास्त्रे चाभिहितः पञ्चाङ्गो मन्त्रस्तद्यथा । कर्मणामारम्भोपायः पुरुष-
द्रव्यसंपद् देशकालविभागो विनिपातप्रतीकारः कार्यसिद्धिश्चेति । सोऽय-
मधुना स्वामिनो महात्ययो वर्तते । तदत्र विनिपातप्रतीकारश्चिन्त्यताम् ।
 
अपि च
 
मन्त्रिणां भिन्नसंधाने भिषजां सांनिपातिके ।
कर्मणि व्यज्यते प्रज्ञा स्वस्थे को वा न पण्डितः ॥ १३८ ।
 
तन्मूर्ख विपरीतबुद्धिरसि । विद्वन्मानित्वादात्मनोऽनर्थमुत्पादयसि ।
साधु चेदमुच्यते ।
 
ज्ञानं मदोपशमनं मन्दानां कुरुते मदम् ।
चक्षुःप्रबोधनं तेज उलूकानामिवान्ध्यकृत् ॥ १३९ ॥
 
तं च कृच्छ्रावस्थागतं स्वामिनं दृष्ट्वा करटकः परं विषादमगमत् ।
आह च । कष्टमिदमापतितं स्वामिनोऽनयोपदेशात् । अथवा साध्विदमुच्यते ।
 
नराधिपा नीचमतानुवर्तिनो
बुधोपदिष्टेन पथा न यान्ति ये ।
विशन्ति ते दुर्गममार्गनिर्गमं
समस्तसंबाधमनर्थपञ्जरम् ॥ १४० ॥