2023-04-11 11:54:05 by Alok Kumar
This page has been fully proofread once and needs a second look.
किमनुष्ठितं भवता । सोऽब्रवीत् । निष्पन्नोऽसावन्योन्यं भेदः । फलेन
ज्ञास्यसि । कश्चात्र विस्मयः । उक्तं च ।
भिनत्ति सम्यक् प्रहितो भेदः स्थिरमतीनपि ।
भूधरान् संहतशिलान् महानिव रयोऽम्भसाम् ॥ १२८ ॥
इत्युक्त्वा दमनकः करटकेन सह पिङ्गलकसमीपं गतः । संजीवकोऽ-
प्युद्विग्नमना मन्दं मन्दं गत्वा तदवस्थं यथापूर्वाख्याताकारं सिंहं दृष्ट्वा तत्स-
काशमेवोपश्लिष्टश्चिन्तयामास । साध्विदमुच्यते ।
अन्तर्गूढभुजंगमं गृहमिव व्यालाकुलं वा वनं
<error>ग्राहाकीर्णमिवाभिरामकमलछायासनाथं</error><fix>ग्राहाकीर्णमिवाभिरामकमलच्छायासनाथं</fix> सरः ।
नित्यं दुष्टजनैरसत्यवचनैः क्षुद्रैरनार्यीकृतं
दुःखेनेह विगाह्यते सुचकितै राज्ञां मनः सेवकैः ॥ १२९ ॥
इत्यात्मनस्तथैव यत्नमास्थितः । पिङ्गलकोऽपि तथाविधं तं विलोक्य
दमनकवाक्यं श्रद्दधानः कोपात्तस्योपरि संनिपतितः । अथ संजीवको नख-
कुलिशाग्रावलुञ्चितपृष्ठः स्वशृङ्गाग्रप्रहारेण तस्योदरमुल्लिख्य तस्मात् कथम-
प्युत्थितः । पुनरपि च तयोर्बद्धामर्षयोः परस्परं महद्युद्धमभवत् । उभावपि
च तौ पुष्पितपलाशतुल्यौ दृष्ट्वा साधिक्षेपं करटको दमनकमाह । धिग्दुरात्मन्
सर्वमाकुलितं त्वयैतन् मूर्खतया ।
कार्याण्युत्तमदण्डसाहसफलान्यायाससाध्यानि ये
प्रीत्या संशमयन्ति नीतिकुशलाः साम्नैव ते मन्त्रिणः ।
निःसाराल्पफलानि ये त्वविधिना वाञ्छन्ति दण्डोद्यमै-
स्तेषां दुर्नयचेष्टितैर्नरपतेरारोप्यते श्रीस्तुलाम् ॥ १३० ॥
तन्मूर्ख
साम्नैव हि प्रयोक्तव्यमादौ कार्यं विजानता ।
सामसिद्धा हि विधयो न प्रयान्ति पराभवम् ॥ १३१ ॥
नोन्मयूखेन रत्नेन नातपेन न वह्निना ।
साम्नैव विलयं याति विद्वेषप्रभवं तमः ॥ १३२ ॥
सामादिर्दण्डपर्यन्तो नयो दृष्टश्चतुर्विधः ।
तेषां दण्डस्तु पापीयांस्तस्मात्तं परिवर्जयेत् ॥ १३३ ॥
अपि च