This page has been fully proofread once and needs a second look.

तन्त्रम् १]
 
सिंहवृषभकथा
 
किमनुष्ठितं भवता । सोऽब्रवीत् । निष्पन्नोऽसावन्योन्यं भेदः । फलेन

ज्ञास्यसि । कश्चात्र विस्मयः । उक्तं च ।
 

 
भिनत्ति सम्यक् प्रहितो भेदः स्थिरमतीनपि ।
 

भूधरान् संहतशिलान् महानिव रयोऽम्भसाम् ॥ १२८ ॥

 
इत्युक्त्वा दमनकः करटकेन सह पिङ्गलकसमीपं गतः । संजीवकोऽ- 5

प्युमिद्विग्नमना मन्दं मन्दं गत्वा तद्वस्थं यथापूर्वाख्याताकारं सिंहं दृष्ट्वा तत्स
-
काशमेवोपश्लिष्टश्चिन्तयामास । साध्विदमुच्यते ।

 
अन्तर्गदगूढभुजंगमं गृहभिमिव व्याळालाकुलं वा वनं

<error>
ग्राहाकीर्णमिवाभिरामकमलछायासनाथं</error><fix>ग्राहाकीर्णमिवाभिरामकमलच्छायासनाथं</fix> सरः ।

नित्यं दुष्टजनैरसत्यवचनैः क्षुद्रैरनार्थीयीकृतं
 
10
 

दुःखेनेह विगाह्यते सुचकितै राज्ञां मनः सेवकैः ॥ १२९ ॥

 
इत्यात्मनस्तथैव यत्नमास्थितः । पिङ्गलकोऽपि तथाविधं तं विलोक्य

दमनकवाक्यं श्रद्दधानः कोपात्तस्योपरि संनिपतितः । अथ संजीवको नत्र
ख-
कुलिशाप्ग्रावलुश्ञ्चितपृष्ठः स्वशृङ्गाप्ग्रप्रहारेण तस्योदरमुल्लिख्य तस्मात् कथम-

प्युत्थितः । पुनरपि च तयोर्द्धामर्षयोः परस्परं महद्युद्धमभवत् । उभावपि 15

तोतौ पुष्पितपलाशतुल्यौ दृष्टाट्वा साधिक्षेपं करटको दमनकमाह । धिग्दुरात्मन्

सर्वमाकुलितं त्वयैतन् मूर्खतया ।
 

 
कार्याण्युत्तमदण्डसाहसफलान्यायाससाध्यानि ये
 
तन्मूर्ख
 
अपि च
 

प्रीत्या संशमयन्ति नीतिकुशलाः साम्नैव ते मन्त्रिणः ।

निःसाराल्पफलानि ये त्वविधिना वाञ्छन्ति दण्डोद्यमै-

स्तेषां दुर्नयचेष्टितैर्नरपतेरारोप्यते श्रीस्तुलाम् ॥ १३० ॥
 
सा

 
तन्मूर्ख
 
साम्
नैव हि प्रयोक्तव्यमादौ कार्यं विजानता ।
 

सामसिद्धा हि विधयो न प्रयान्ति पराभवम् ॥ १३१ ॥

 
नोन्मयूखेन रत्नेन नातपेन न वह्निना ।
सा

साम्
नैव विलयं याति विद्वेषप्रभवं तमः ॥ १३२ ॥

 
सामादिर्दण्डपर्यन्तो नयो दृष्टश्चतुर्विधः ।
 

तेषां दण्डस्तु पापीयांस्तस्मात्तं परिवर्जयेत् ॥ १३३ ॥
 
20
 
25
 

 
अपि च