This page has not been fully proofread.

तन्त्रम् १]
 
सिंहवृषभकथा
 
किमनुष्ठितं भवता । सोऽब्रवीत् । निष्पन्नोऽसावन्योन्यं भेद । फलेन
ज्ञास्यसि । कश्चात विस्मयः । उक्तं च ।
 
भिनत्ति सम्यक् प्रहितो भेदः स्थिरमतीनपि ।
 
भूधरान् संहतशिलान् महानिव रयोऽम्भसाम् ॥ १२८ ॥
इत्युक्त्वा दमनकः करटकेन सह पिङ्गलकसमीपं गतः । संजीवकोऽ- 5
प्युमिना मन्दं मन्दं गत्वा तद्वस्थं यथापूर्वाख्याताकारं सिंहं दृष्ट्वा तत्स
काशमेवोपश्लिष्टश्चिन्तयामास । साध्विदमुच्यते ।
अन्तर्गदभुजंगमं गृहभिव व्याळाकुलं वा वनं
ग्राहाकीर्णमिवाभिरामकमलछायासनाथं सरः ।
नित्यं दुष्टजनैरसत्यवचनैः क्षुद्रैरनार्थीकृतं
 
10
 
दुःखेनेह विगाह्यते सुचकितै राज्ञां मनः सेवकैः ॥ १२९ ॥
इत्यात्मनस्तथैव यत्नमास्थितः । पिङ्गलकोऽपि तथाविधं तं विलोक्य
दमनकवाक्यं श्रद्दधानः कोपात्तस्योपरि संनिपतितः । अथ संजीवको नत्र
कुलिशाप्रावलुश्चितपृष्ठः स्वशृङ्गाप्रप्रहारेण तस्योदरमुल्लिख्य तस्मात् कथम-
प्युत्थितः । पुनरपि च तयोर्थद्धामर्षयोः परस्परं महयुद्धमभवत् । उभावपि 15
च तो पुष्पितपलाशतुल्यौ दृष्टा साधिक्षेप करटको दमनकमाह । धिग्दुरात्मन्
सर्वमाकुलितं त्वयैतन् मूर्खतया ।
 
कार्याण्युत्तमदण्डसाहसफलान्यायाससाध्यानि ये
 
तन्मूर्ख
 
अपि च
 
प्रीत्या संशमयन्ति नीतिकुशलाः सानैव ते मन्त्रिणः ।
निःसाराल्पफलानि ये त्वविधिना वाञ्छन्ति दण्डोद्यमै-
स्तेषां दुर्नयचेष्टितैर्नरपतेरारोप्यते श्रीस्तुलाम् ॥ १३० ॥
 
सानैव हि प्रयोक्तव्यमादौ कार्य विजानता ।
 
सामसिद्धा हि विधयो न प्रयान्ति पराभवम् ॥ १३१ ॥
नोन्मयूखेन रत्नेन नातपेन न वह्निना ।
सानैव विलयं याति विद्वेषप्रभवं तमः ॥ १३२ ॥
सामादिर्दण्डपर्यन्तो नयो दृष्टचतुर्विधः ।
 
तेषां दण्डस्तु पापीयांस्तस्मात्तं परिवर्जयेत् ॥ १३३ ॥
 
20
 
25