This page has been fully proofread once and needs a second look.

अतोऽहं ब्रवीमि । अनागतविधाता चेति । टिट्टिभ आह । भद्रे किं
मां यद्भविष्यवन् मन्यसे । तन्न भीः कार्या। मद्भुजपरिरक्षिताया:याः कस्ते परा-
भवं कर्तुं समर्थः । अथ टिट्टिभी तत्रैव प्रसूता । श्रुतपूर्वतदालापेन समुद्रे-
णापि तत्प्रति जिज्ञासयाण्डान्यपहृतानि । पश्यामि तावदयं किमारभत
इति । अथ टिट्टिभी शून्यमपत्यस्थानं दृष्ट्वा शोकार्ता भर्तारमाह । इदं
तत्कष्टमापतितं मम मन्दभाग्यायाः यत्पूर्वं मया तवोक्तं स्थानाश्रयवैषम्याद-
पत्यनाश इति । टिट्टिभ आह । ममापि तावद्भद्रे दृश्यतां सामर्थ्यमिति ।
ततस्तेन पक्षिसमाजं कृत्वा निवेदितं तदपत्यहरणजं दुःखम् । तत्रैकेन पक्षि-
णाभिहितम् । असमर्था वयं महोदधिविग्रहस्य । किं पुनरत्र प्राप्तकालम् ।
सर्व एव वयमाक्रन्देन गरुत्मन्तमुद्वेजयामः । स एव नो दुःखमपनेष्यति ।
इति संप्रधार्य गरुडसकाशं गताः । असावपि देवासुरसङ्ग्रामनिमित्तं समा-
हूतो भगवता नारायणेन । ततस्तस्मिन्नेव समये तैः पक्षिभिर्निवेदितं समुद्र-
कृतमपत्यहरणवियोगदुःखं स्वामिने पक्षिराजाय यथा देव त्वयि नाथे
प्रतपति चञ्चुभरणमात्रजीविनो भोजनदौर्बल्यादस्मान् परिभूय समुद्रः
शिशूनपहृतवान् । गरुडश्च <flag>तत्स्वयूथ्यव्यसनं</flag> दृष्ट्वा मन्युमाजगाम । देवोऽपि
नारायणस्त्रैकाल्यदर्शनसामक्ष्यात् तस्यान्तर्गतं मत्वा स्वयमेव तत्सकाश-
मगमत् । अथ देवं दृष्ट्वा सुतरामाविग्नहृदयोऽब्रवीत् । युक्तं त्वया नाथेन
सता समुद्रापसदान्ममायं पराभव इति । ज्ञात्वा च देवः परिहस्य समुद्र-
स्येदमुवाच । समर्पयाधुनाण्डानि टिट्टिभस्येति । अन्यथा त्वामाग्नेयास्त्रप्रता-
पितमनेकवडवामुखसहस्रपरिक्षीणतोयं स्थलतां नयामीति । ततो देवाज्ञया
समुद्रेण सभयेन तान्यण्डानि समर्पितानि ।
 
इति नवमी कथा समाप्ता
 
अतोऽहं ब्रवीमि । शत्रोर्विक्रममज्ञात्वेति । अवगतार्थश्च संजीवकस्त-
मपृच्छत् । वयस्य कथय कस्तस्य युद्धमार्ग इति । सोऽब्रवीत् । <flag>अन्यदासौ</flag>
स्रस्ताङ्गः शिलातलमाश्रितस्त्वदुन्मुखः प्रतीक्षते । अद्य यदि प्रथममेव
समुन्नतलाङ्गूल:लः संयतचतुश्चरणो विवृतास्यः स्तब्धकर्णश्च दूरादेव त्वत्सं-
मुखमीक्षमाणस्तिष्ठति तदा ज्ञात्वायं ममोपरि <flag>दुरघमतिरिति</flag> त्वमपि व्यव-
हरिष्यसि । एवमुक्त्वा दमनकः करटकसमीपं गतः । तेन चाभिहितः ।