2023-04-11 11:52:00 by Alok Kumar
This page has been fully proofread once and needs a second look.
नयावः । एवं च निष्पन्ने तज्जलाशयसंनिकृष्टनगरस्योपरिष्टान् नीयमानं
कच्छपं दृष्ट्वा किमिदं शकटचक्रप्रमाणं पक्षिभ्यां वियता नीयत इति जनः
सकलकलः संवृत्तः । तच्च श्रुत्वासन्नविनाशः कच्छपो यष्टिं त्यक्त्वाभिहित-
वान् । कोऽयं कलकलः । इति ब्रुवन् वचनसमकालमेव काष्ठात् परिभ्रष्टो
भूमौ निपतितः । मांसार्थिना च लोकेन पातसमकालमेव तीक्ष्णशस्त्रैः
खण्डशो विभक्त इति ।
इति दशमी कथा समाप्ता ।
अतोऽहं ब्रवीमि । मित्राणां हितकामानामिति । पुनश्चाह ।
अनागतविधाता च प्रत्युत्पन्नमतिश्च यः ।
द्वावेतौ सुखमेधेते यद्भविष्यो विनश्यति ॥ १२७ ॥
टिट्टिभ आह । कथं चैतत् । साब्रवीत् ।
अथानागत विधातृ प्रत्युत्पन्नमतियद्भविष्यकथा नामैकादशी कथा
अस्ति कस्मिंश्चिन्महाह्रदे महाकायास्त्रयो मत्स्याः प्रतिवसन्ति स्म ।
तद्यथा । अनागतविधाता प्रत्युत्पन्नमतिर्यद्भविष्यश्चेति । तत्रानागतविधात्रा
तदुदकान्तर्गतेन कदाचित्तत्समीपे मत्स्यबन्धानामतिक्रामतां वचनं श्रुतम् ।
बहुमत्स्योऽयं ह्रदः । तदत्र श्वो मत्स्यबन्धनं कुर्मः । तच्च श्रुत्वानागतविधात्रा
चिन्तितम् । अवश्यमेत आगन्तारः । तदहं प्रत्युत्पन्नमतिं यद्भविष्यं च
गृहीत्वान्यमछिन्नस्रोतस्कं ह्रदं संश्रयामीति । ततो वयस्यावाहूय पृष्टवान् गम-
नाय । तत्र प्रत्युत्पन्नमतिरब्रवीत् । यद्यत्र मत्स्यजीविनः समागमिष्यन्ति
तदाहं तत्समयोचितकर्मणा केनाप्यात्मानं रक्षयिष्यामि । यद्भविष्यस्त्वासन्न-
विनाशस्तद्वचनमनादृत्य गमनं प्रति निरारम्भ एवासीत् । एवं तौ तत्र
स्थिरौ मत्वानागतविधाता नदीस्रोतः प्रविश्यान्यजलाशयं गतः । अन्येद्यु-
श्चापयाते तस्मिन् परिजनसमेतैर्मत्स्यबन्धैरन्तःस्रोतो निरुध्य संवर्तजालं
प्रक्षिप्य निःशेषमत्स्यानां बन्धः कृतः । एवं गते प्रत्युत्पन्नमतिर्मृतरूपं कृत्वा-
त्मानं जालस्यान्तर्दर्शितवान् । तैश्च स्वयमेव मृतोऽसौ महामत्स्य इति मत्वा
जालादाकृष्य स्रोतः समीपे स्थापितः । ततस्तु स उत्प्लुत्यान्यं जलाशयं सह-
सैव गतः । यद्भविष्यस्तु किंकर्तव्यतामूढ इतस्ततो भ्रमञ्जालैर्बद्ध्वा लगुडै-
र्व्यपादितः ।
इत्येकादशी कथा समाप्ता ।