This page has not been fully proofread.

कथा ९ - ११]
 
टिट्टिभ-हंसकूर्म-मत्स्यत्रयकथा:
 
३५
 
नयावः । एवं च निष्पन्ने तज्जलाशय संनिकृष्टनगरस्योपरिष्टान् नीयमानं
कच्छपं दृष्टा किमिदं शकटचक्रप्रमाणं पक्षिभ्यां वियता नीयत इति जनः
सकलकलः संवृत्तः । तच श्रुत्वासन्नविनाशः कच्छपो यष्टिं त्यक्त्वाभिहित-
वान् । कोऽयं कलकलः । इति ब्रुवन् वचनसमकालमेव काष्ठात् परिभ्रष्टो
भूमौ निपतितः । मांसार्थिना च लोकेन पातसमकालमेव तीक्ष्णश खै:
खण्डशो विभक्त इति ।
 
इति दशमी कथा समाप्ता ।
 
अतोऽहं ब्रवीमि । मित्राणां हितकामानामिति । पुनाह ।
अनागत विधाता च प्रत्युत्पन्नमतिश्च यः ।
 
द्वावेतौ सुखमेघेते यद्भविष्यो विनश्यति ॥ १२७ ॥
टिट्टिभ आह । कथं चैतत् । साब्रवीत् ।
 

 
अथानागत विधातृ प्रत्युत्पन्नमतियद्भविष्यकथा नामैकादशी कथा
अस्ति कस्मिंश्चिमहादे महाकायास्त्रयो मत्स्याः प्रतिवसन्ति स्म ।
तद्यथा । अनागतविधाता प्रत्युत्पन्नमतिर्यद्भविष्यञ्चेति । तत्रानागतविधात्रा
तदुदकान्तर्गतेन कहा चित्तत्समीपे मत्स्यबन्धानामतिक्रामतां वचनं श्रुतम् । 15
बहुमत्स्योऽयं हृदः । तद वो मत्स्यबन्धनं कुर्मः । तच्च श्रुत्वानागत विधात्रा
चिन्तितम् । अवश्यमेत आगन्तारः । तदहं प्रत्युत्पन्नमतिं यद्भविष्यं च
गृहीत्वान्यमछिन्नस्त्रोतस्कं हृदं संश्रयामीति । ततो वयस्यावाहूय पृष्टवान् गम-
नाय । तत्र प्रत्युत्पन्नमतिरब्रवीत् । यद्यत्र मत्स्यजीविनः समागमिष्यन्ति
तदाहं तत्समयोचितकर्मणा केनाप्यात्मानं रक्षयिष्यामि । यद्भविष्यस्त्वासन्न 20
विनाशस्तद्वचनमनादृत्य गमनं प्रति निरारम्भ एवासीत् । एवं तौ तत्र
स्थिरौ मत्वानागतविधाता नदीस्रोतः प्रविश्यान्यजलाशयं गतः । अन्ये -
चापयाते तस्मिन परिजनसमेतैर्मत्स्यबन्धैरन्तःस्रोतो निरुध्य संवर्तजालं
प्रक्षिप्य निःशेषमत्स्यानां बन्धः कृतः । एवं गते प्रत्युत्पन्नम तिर्मृतरूपं कृत्वा-
त्मानं जालस्यान्तर्दर्शितवान् । तैश्च स्वयमेव मृतोऽसौ महामत्स्य इति मत्वा 25
जालादाकृष्य स्रोतः समीपे स्थापितः । ततस्तु स उत्प्लुत्यान्यं जलाशयं सह-
सैव गतः । यद्भविष्यस्तु किंकर्तव्यतामृढ इतस्ततो भ्रमञ्जालैर्बडा लगुडे-
व्यपादितः ।
 
इत्येकादशी कथा समाप्ता ।
 
10