2023-04-11 11:51:38 by Alok Kumar
This page has been fully proofread once and needs a second look.
संजीवक आह । कथं चैतत् । दमनकोऽब्रवीत् ।
अथ टिट्टिभसमुद्रकथा नाम नवमी कथा ।
अस्ति कस्मिंश्चित् समुद्रतीरैकदेशे टिट्टिभदम्पती प्रतिवसतः स्म ।
अथ कदाचिट्टिट्टिभी प्रत्यासन्नप्रसवा भर्तारमब्रवीत् । नाथ किंचित्प्रसवयोग्यं
स्थानमन्विष्यताम् । असावकथयत् । नन्वेतदेव स्थानं वृद्धिकरमत्रैव प्रसू-
ष्वेति । साब्रवीत् । अलमनेन सापायेन स्थानेन । कदाचित् समुद्रवेला
जलप्लावनेन ममापत्यान्यपहरेत् । असावाह । भद्रे न शक्तो महोदधिर्मया
सार्धमीदृशं वैरानुबन्धं कर्तुमिति । सा विहस्याब्रवीत् । बह्वसदृशं तव समु-
द्वेण बलम् । कथमात्मनो न ज्ञायते सारासारता । उक्तं च
दुःखमात्मा परिच्छेत्तुमेवं योग्यो न वेति वा ।
अस्तीदृग् यस्य विज्ञानं स कृच्छ्रेऽपि न सीदति ॥ १२५ ॥
अपि च
मित्राणां हितकामानां यो वाक्यं नाभिनन्दति ।
स कूर्म इव दुर्बुद्धिः काष्ठाद्भ्रष्टो विनश्यति ॥ १२६ ॥
टिट्टिभ आह । कथं चैतत् । साब्रवीत् ।
अथ हंसकच्छपकथा नाम दशमी कथा ।
अस्ति कस्मिंश्चित् सरसि कम्बुग्रीवो नाम कच्छपः प्रतिवसति स्म । तस्य
द्वौ सुहृदौ सङ्कटविकटनामानौ हंसौ । अथ कालविपर्यये द्वादशवार्षिक्य-
नावृष्टिरापतिता । ततस्तयोर्मतिरुत्पन्ना । क्षीणतोयं जातमिदं सरः । अन्यं
जलाशयं गच्छाव इति । किं पुनश्चिरपरिचितमिदं प्रियमित्रं कम्बुग्रीव-
मामन्त्रयावहे । तथा चानुष्ठिते कच्छपेनाभिहितौ । कस्मान् ममामन्त्रणं
क्रियते । यदि तु स्नेहोऽस्ति ततो मामप्यस्मान् मृत्युमुखात् त्रातुमर्हथः ।
यत्कारणं युवयोस्तावदाहारवैकल्यमेव केवलमस्मिन् स्वल्पोदके सरसि ।
ममात्र तु मरणमेव । तद्विचिन्त्यतामाहारप्राणवियोगयोः को गरीयान् ।
ताभ्यामभिहितम् । युक्तमात्थ । एवमेतत् । किं पुनः प्राप्तकालं भवाञ्
जानाति । अवश्यं नयाव आवां भवन्तम् । त्वया पुनः पथि चापलान्न किंचि-
द्वक्तव्यम् । तथेत्युक्ते कच्छपेन हंसौ यष्टिमानीयाहतुः । इमां तु यष्टिं मध्ये
दशनैरापीडय । आवामप्यन्तयोर्गृहीत्वा व्योममार्गेण दूरं महत् सरो भवन्तं