This page has been fully proofread once and needs a second look.

३४
 
मित्रभेदम्
 
संजीवक आह । कथं चैतत् । दमनकोऽब्रवीत् ।
 
[ तन्त्रम् १
 

 
अथ टिडिनट्टिभसमुद्रकथा नाम नवमी कथा ।
 

 
अस्ति कस्मिंश्चित् समुद्रतीरैकदेशे टिट्टिदम्पती प्रतिवसतः स्म ।

अथ कदाचिट्टिट्टिमीभी प्रत्यासन्नप्रसवा भर्तारमब्रवीत् । नाथ किंचित्प्रसवयोग्यं
5

स्थानमन्विष्यताम् । असावकथयत् । नन्वेतदेव स्थानं वृद्धिकरमत्रैव प्रसू-

ष्वेति । साब्रवीत् । अलमनेन सापायेन स्थानेन । कदाचित् समुद्रवेला

जलप्लावनेन ममापत्यान्यपहरेत् । असावाह । भद्रे न शक्तो महोदधिर्मया

सार्धमीदृशं वैरानुबन्धं कर्तुमिति । सा विहस्याब्रवीत् । बह्वसदृशं तव समु-

द्वेण बलम् । कथमात्मनो न ज्ञायते सारासारता । उक्तं च
 
10
 

 
दुःखमात्मा परिच्छेत्तुमेवं योग्यो न वेति वा ।

अस्तीदृग् यस्य विज्ञानं स कृच्छ्रेऽपि न सीदति ॥ १२५ ॥
 

 
अपि च
 

 
मित्राणां हितकामानां यो वाक्यं नाभिनन्दति ।

स कूर्म इव दुर्बुद्धिः काष्ठाद्भ्रष्टो विनश्यति ॥ १२६ ॥
13

 
टिट्टिभ आह । कथं चैतत् । साब्रवीत् ।
 

 
अथ हंसकच्छपकथा नाम दशमी कथा ।
 

 
अस्ति कस्मिंश्चित् सरसि कम्बुप्ग्रीवो नाम कच्छपः प्रतिवसति स्म । तस्य

द्वौ सुहृदौ सङ्कटविकटनामानौ हंसौ । अथ काल विपर्यये द्वादशवार्पिषिक्य-

नावृष्टिरापतिता । ततस्तयोर्मतिरूरुत्पन्ना । क्षीणतोयं जातमिदं सरः । अन्यं
20

जलाशयं गच्छाव इति । किं पुनश्चिरपरिचितमिदं प्रियमित्रं कम्बुप्ग्रीव-

मामन्त्रयावहे । तथा चानुष्ठिते कच्छपेनाभिहितौ । स्मान् ममामन्त्रणं

क्रियते । यदि तु स्नेहोऽस्ति ततो मामप्यस्मान् मृत्युमुखात् त्रातुमर्हथः ।

यत्कारणं युवयोस्तावदादाहारवैकल्यमेव केवलमस्मिन् स्वल्पोदके सरसि ।

ममात्र तु मरणमेव । तद्विचिन्त्यतामाहारप्राणवियोगयोः को गरीयाम् ।
25
न् ।
ताभ्यामभिहितम् । युक्तमात्थ । एवमेतत् । किं पुनः प्राप्तकालं भवान्
 

 
ञ्
जानाति । अवश्यं नयाव आवां भवन्तम् । त्वया पुनः पथि चापलान्न किंचि
-
द्वक्तव्यम् । तथेत्युक्ते कच्छपेन हंसौ यष्टिमानीयाहतुः । मां तु यष्टिटिं मध्ये

दशनैरापीडय । आवामप्यन्तयोर्गृहीत्वा व्योममार्गेण दूरं महत् सरो भवन्तं