This page has not been fully proofread.

३४
 
मित्रभेदम्
 
संजीवक आह । कथं चैतत् । दमनकोऽब्रवीत् ।
 
[ तन्त्रम् १
 
अथ टिडिनसमुद्रकथा नाम नवमी कथा ।
 
अस्ति कस्मिंश्चित समुद्रतीरैकदेशे टिट्टिदम्पती प्रतिवसतः स्म ।
अथ कदाचिट्टिट्टिमी प्रत्यासन्नप्रसवा भर्तारमनवीत् । नाथ किंचित्प्रसवयोग्यं
5 स्थानमन्विष्यताम् । असावकथयत् । नन्वेतदेव स्थानं वृद्धिकरमत्रैव प्रसू-
ष्वेति । साब्रवीत् । अलमनेन सापायेन स्थानेन । कदाचित् समुद्रवेला
जलप्लावनेन ममापत्यान्यपहरेत् । असावाह । भद्रे न शक्तो महोदधिर्मया
सार्धमीदृशं वैरानुबन्धं कर्तुमिति । सा विहस्याब्रवीत् । बह्वसदृशं तव समु-
द्वेण बलम् । कथमात्मनो न ज्ञायते सारासारता । उक्तं च
 
10
 
दुःखमात्मा परिच्छेत्तुमेवं योग्यो न वेति वा ।
अस्तीदृग् यस्य विज्ञानं सऽपि न सीदति ॥ १२५ ॥
 
अपि च
 
मित्राणां हितकामानां यो वाक्यं नाभिनन्दति ।
स कूर्म इव दुर्बुद्धिः काष्ठाद्धष्टो विनश्यति ॥ १२६ ॥
13 टिट्टिभ आह । कथं चैतत् । साब्रवीत् ।
 
अथ हंसकच्छपकथा नाम दशमी कथा ।
 
अस्ति कस्मिंश्चित् सरसि कम्बुप्रीवो नाम कच्छपः प्रतिवसति स्म । तस्य
द्वौ सुहृदौ सङ्कटविकटनामानौ हंसौ । अथ काल विपर्यये द्वादशवार्पिक्य-
नावृष्टिरापतिता । ततस्तयोर्मतिरूपन्ना । क्षीणतोयं जातमिदं सरः । अन्यं
20 जलाशयं गच्छाव इति । किं पुनश्चिरपरिचितमिदं प्रियमित्रं कम्बुप्रीव-
मामन्त्रयावहे । तथा चानुष्ठिते कच्छपेनाभिहितौ । फस्मान् ममामन्त्रणं
क्रियते । यदि तु नेहोऽस्ति ततो मामप्यस्मान् मृत्युमुखात् त्रातुमर्हथः ।
यत्कारणं युवयोस्तावदादारवैकल्यमेव केवलमस्मिन् स्वल्पोदके सरसि ।
ममात्र तु मरणमेव । तद्विचिन्त्यतामाहारप्राणवियोगयोः को गरीयाम् ।
25 ताभ्यामभिहितम् । युक्तमात्थ । एवमेतत् । किं पुनः प्राप्तकालं भवान्
 

 
जानाति । अवश्यं नयाव आवां भवन्तम् । त्वया पुनः पथि चापलान्न किंचि
द्वक्तव्यम् । तथेत्युक्ते कच्छपेन हंसौ यष्टिमानीयाहतुः । मां तु यष्टि मध्ये
दशनैरापीडय । आवामप्यन्तयोर्गृहीत्वा व्योममार्गेण दूरं महत् सरो भवन्तं