This page has been fully proofread once and needs a second look.

अतोऽहं ब्रवीमि । बहवः पण्डिताः क्षुद्रा इति । आख्याते चाख्यानके
पुनर्दमनकं संजीवकोऽब्रवीत् । भद्र क्षुद्रपरिवारोऽयं राजा न शिवायाश्रि-
तानाम् । उक्तं च
 
वरं गृध्रो हंसैः सलिलपरितुष्टैः परिवृतो
न हंसः क्रव्यादै:दैः पितृवनविहंगैरकरुणैः ।
परीवारः क्षुद्रो दहति पुरुषं सद्गुणमपि
सहायैरक्षुद्रैर्भवति गुणहीनोऽपि गुणवान् ॥ ११८ ॥
 
तत्सोऽयं केनापि ममोपरि राजा विप्रकृतः । साधु चेदमुच्यते ।
 
मृदुना सलिलेन खन्यमाना-
न्यपकृष्यन्ति गिरेरपि स्थलानि ।
उपजापकृतोद्यमैस्तु तज्ज्ञैः
किमु चेतांसि मृदूनि मानवानाम् ॥ ११९ ॥
 
तदेवं गते किमधुना प्राप्तकालम् । अथवा किमन्यद्युद्धात् । तदाज्ञानु-
वर्तनमयुक्तम् । उक्तं च
 
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
उत्पथप्रतिपन्नस्य न्याय्यं भवति शासनम् ॥ १२० ॥
 
यान् यज्ञसङ्घैस्तपसा च लोकान्
स्वर्गैषिणो दानचयैश्च यान्ति ।
क्षणेन तानप्यभियान्ति धीराः
प्राणान् सुयुद्धेषु परित्यजन्तः ॥ १२१ ॥
 
प्राणाश्च कीर्तिश्च परिच्छदश्च
सर्वेऽपि युद्धेन हि रक्षणीयाः ।
युद्धे विशिष्टं मरणं नराणां
द्विषद्वशे जीवति यो मृतोऽसौ ॥ १२२ ॥
 
मृतः प्राप्स्यति वा स्वर्गं शत्रून् हत्वापि वा सुखम् ।
उभावपि हि शूराणां गुणावेतौ सुदुर्लभौ ॥ १२३ ॥
 
दमनक आह । भद्र । अनुपाय एषः । यत्कारणम् ।
 
शत्रोर्विक्रममज्ञात्वा वैरमारभते हि यः ।
स पराभवमाप्नोति समुद्र इव टिट्टिभात् ॥ १२४ ॥