This page has been fully proofread once and needs a second look.

तन्त्रम् १ ]
 
सिंहवृषभकथा
 
३३
 
अतोऽहं ब्रवीमि । बहवः पण्डिताः क्षुद्रा इति । आख्याते चाख्यानके

पुनर्दमनकं संजीवकोऽब्रवीत् । भद्र क्षुद्रपरिवारोऽयं राजा न शिवायात्श्रि-

तानाम् । उक्तं च
 

 
वरं गृध्रो हंसैः सलिलपरितुष्टैः परिवृतो
 

न हंसः क्रव्यादै: पितृवन विहंगैरकरुणैः ।

परीवारः क्षुद्रो दहति पुरुषं सद्गुणमपि

सहायैर क्षुद्रैर्भवति गुणहीनोऽपि गुणवान् ॥ ११८ ॥

 
तत्सोऽयं केनापि ममोपरि राजा विप्रकृतः । साधु चेदमुच्यते ।

 
मृदुना सलिलेन खन्यमाना-

न्यपकृष्यन्ति गिरेरपि स्थलानि ।

उपजापकृतोद्यमैस्तु तज्ज्ञैः
 

किमु चेतांसि मृदूनि मानवानाम् ॥ ११९ ॥

 
तदेवं गते किमधुना प्राप्तकालम् । अथवा किमन्यद्युद्धात् । तदाज्ञानु-

वर्तनमयुक्तम् । उक्कंतं
 

 
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
 

उत्पथप्रतिपन्नस्य न्याय्यं भवति शासनम् ॥ १२० ॥
 

 
यान् यज्ञसङ्घैस्तपसा च लोकान्
 

स्वर्गैषिणो दानचयैश्च यान्ति ।
 

क्षणेन तानप्यभियान्ति धीराः
 

प्राणान् सुयुद्धेषु परित्यजन्तः ॥ १२१ ॥
 

 
प्राणाश्च कीर्तिश्च परिच्छश्
 

सर्वेऽपि युद्धेन हि रक्षणीयाः ।

युद्धे विशिष्टं मरणं नराणां
 

द्विषद्वशे जीवति यो मृतोऽसौ ॥ १२२ ॥

 
मृतः प्राप्स्यति वा स्वर्गं शत्रून् हत्वापि वा सुखम् ।

उभावपि हि शूराणां गुणावेतौ सुदुर्लभौ ॥ १२३ ॥
 

 
दमनक आह । भद्र । अनुपाय एषः । यत्कारणम् ।

 
शत्रोर्बिविक्रममज्ञात्वा बेवैरमारभते हि यः ।
सोत

स पराभवमाप्नोति
समुद्र इव डिटिट्टिभात् ॥ १२४ ॥
 
5
 
10
 
15
 
20
 
25