This page has not been fully proofread.

तन्त्रम् १ ]
 
सिंहवृषभकथा
 
३३
 
अतोऽहं ब्रवीमि । बहवः पण्डिताः क्षुद्रा इति । आख्याते चाख्यानके
पुनर्दमनकं संजीवकोऽब्रवीत् । भद्र क्षुद्रपरिवारोऽयं राजा न शिवायात्रि-
तानाम् । उक्तं च
 
वरं गृध्रो हंसैः सलिलपरितुष्टैः परिवृतो
 
न हंसः ऋयादै: पितृवन विहंगैरकरुणैः ।
परीवारः क्षुद्रो दहति पुरुष सद्गुणमपि
सहायैर क्षुद्रैर्भवति गुणहीनोऽपि गुणवान् ॥ ११८ ॥
तत्सोऽयं केनापि ममोपरि राजा विप्रकृतः । साधु चेदमुच्यते ।
मृदुना सलिलेन खन्यमाना-
न्यपकृष्यन्ति गिरेरपि स्थलानि ।
उपजापकृतोद्यमैस्तु तज्ज्ञैः
 
किमु चेतांसि मृदूनि मानवानाम् ॥ ११९ ॥
तदेवं गते किमधुना प्राप्तकालम् । अथवा किमन्ययुद्धात् । तदाज्ञानु-
वर्तनमयुक्तम् । उक्कं च
 
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
 
उत्पथप्रतिपन्नस्य न्याय्यं भवति शासनम् ॥ १२० ॥
 
यान् यज्ञसस्तपसा च लोकान्
 
स्वर्गैषिणो दानचयैश्च यान्ति ।
 
क्षणेन तानप्यभियान्ति धीराः
 
प्राणान् सुयुद्धेषु परित्यजन्तः ॥ १२१ ॥
 
प्राणाच कीर्तिश्च परिच्छवश्र
 
सर्वेऽपि युद्धेन हि रक्षणीयाः ।
युद्धे विशिष्टं मरणं नराणां
 
द्विषद्वशे जीवति यो मृतोऽसौ ॥ १२२ ॥
मृतः प्राप्स्यति वा स्वर्ग शत्रून् हत्वापि वा सुखम् ।
उभावपि हि शूराणां गुणावेतौ सुदुर्लभौ ॥ १२३ ॥
 
दमनक आह । भद्र । अनुपाय एषः । यत्कारणम् ।
शत्रोर्बिक्रममज्ञात्वा बेरमारभते हि यः ।
सोत समुद्र इव डिट्टिभात् ॥ १२४ ॥
 
5
 
10
 
15
 
20
 
25