This page has been fully proofread once and needs a second look.

न गोप्रदानं न महीप्रदानं
न चान्नदानं हि तथा प्रधानम् ।
यथा वदन्तीह महाप्रदानं
सर्वप्रदानेष्वभयप्रदानम् ॥ ११६ ॥
 
काकोऽब्रवीत् । अहो स्वामिनो धर्मशास्त्रं प्रति प्रतिभा । एतदन्यदपि
प्रधानं महर्षिवचनं यथा श्रेयसामर्थे पापीयान् समारम्भः । अपि चोक्तम्
 
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे स्वात्मार्थे पृथिवीं त्यजेत् ॥ ११७ ॥
 
पुनश्चाह । मा स्वामी स्वयं व्यापादयतु । <error>मयास्योपधिना</error><fix>मयास्योपाधिना</fix> वध आरब्धः ।
सोऽब्रवीत् । कथमिव । वायस आह । अयं तावदेतदवस्थं स्वामिनमस्मांश्च
दृष्ट्वा स्वयमेवात्मानमन्यपुष्ट्यर्थं स्वर्गगमनाय सत्वहिताय निवेदयति । ततो
न दोषः । एवमभिहितवति वायसे सिंहो मतिभ्रममिवार्पितो न किंचिद-
प्युदाहृतवान् । असावपि पुनस्तत्सकाशं गत्वा कृतकवचनैः प्रत्येकं विज्ञा-
पितवान् । अहो स्वामिनो महत्यवस्था वर्तते । नासिकान्तप्राप्तजीवितस्ति-
ष्ठति । तत्तेन विना कोऽस्माकमत्र कानने रक्षिता । तदस्य क्षुद्रोगात्पर-
लोकप्रस्थितस्य स्वयं गत्वा स्वशरीरदानं कुर्मो येन स्वामिप्रसादस्यानृणतां
गच्छामः । इति । ततः कृतसंविदः सह कथनकेन सिंहसकाशं गताः ।
अथ काकेनोक्तम् । देव । आहारो न प्राप्तः । अनेकोपवासक्लिष्टश्च स्वामी ।
तत्सर्वथा मदीयं मांसपभुज्यतामिति । अथासावाह । स्वल्पकायो भवान् ।
न युष्मच्छरीरोपभोगे कृतेऽप्यस्माकं किंचित्तृप्तिकारणं भवति । तस्मिं-
श्चापयाते गोमायुरप्येवमभिहितवान् । अस्मान् मम विशिष्टतरं शरीरम् ।
तन्मत्प्राणैः क्रियतां प्राणयात्रेति । तमपि सिंहस्तथैवाभिहितवान् । अपयाते
च तस्मिन् द्वीप्याह । आभ्यां मम विशिष्टतरं शरीरमिदमुपभुज्यतामिति ।
तमप्यसावाह । अल्पकायो भवानपीति । कथनकोऽचिन्तयत् ।
नैवात्र कश्चिद्विनाश्यते । तदहमप्येवमेव ब्रवीमि । तत उत्थाय सिंहान्ति-
कमुपगम्याब्रवीत् । देव पथ्यो मम विशिष्टतरं शरीरम् । तस्मान्मच्छ-
रीरेणात्मनः प्राणयात्रा क्रियतामिति । एवमभिवदन्नेवासौ द्वीपिगोमायुभ्यां
विदारितोभयकुक्षिः सद्यः पञ्चत्वमुपगतो भक्षितश्चेति ।
 
इत्यष्टमी कथा समाप्ता ।