2023-04-11 11:49:14 by Alok Kumar
This page has been fully proofread once and needs a second look.
तस्यानुचरास्त्रयो द्वीपिवायसगोमायवः । अथ तैस्तद्वनं भ्रमद्भिः सार्थवाह-
परिभ्रष्ट उष्ट्रो दृष्टः । तं चाविज्ञातपूर्वरूपं हास्यजननं दृष्ट्वा सिंह:हः पृष्टवान् ।
इदमपूर्वं सत्त्वमिह वने पृच्छ्यताम् । कस्त्वं कुत आगत इति । ततोऽवगत-
तत्त्वार्थो वायसोऽब्रवीत् । कथनकनामोष्ट्रोऽयमिति । ततस्तैर्विश्वास्य सिंह-
सकाशमानीतः । तेनापि यथावृत्तमात्मनो वियोग:गः सार्थवाहात्समाख्यातः ।
सिंहेन चास्याभ्युपपत्तिरभयप्रदानं च दत्तम् । एवं च वर्तमाने कदाचित्
सिंहो वन्यगजयुद्धरदनक्षतशरीरो गुहवासी संवृत्तः । पञ्चषट्सप्तदिवसाति-
क्रान्ते च काले सर्व एव त आहारवैकल्यादात्यायिकमापतिताः । यतोऽव-
सन्नास्ततः सिंहेनाभिहिताः । अहमनया क्षतरुजा न क्षमः पूर्ववदाहारं भवता-
मुत्पादयितुम् । तद्यूयमात्मार्थेऽपि तावदभ्युद्यमं कुरुध्वमिति । ततस्ते प्रोचुः ।
एवं स्थितेषु देवपादेषु किमस्माकं पुष्ट्यर्थेन । इति सिंह आह । साध्वनु-
जीविवृत्तं मदुपरि भक्तिश्च भवताम् । अतिशोभनमभिहितम् । शक्ता भवन्तः
सजश्चाहम् । तन्ममैतदवस्थस्योपनयताहारमिति । यदा च न किंचिदूचुस्ते
तदानेनाभिहिताः । किमनया व्रीडया । अन्विष्यतां किंचित्सत्त्वम् । अहमेत-
दवस्थोऽपि युष्माकमात्मनश्चोत्पादयिष्ये प्राणयात्रार्थमिति । एवमुक्तास्तेऽप्यु-
त्थाय वनान्तरं प्रविष्टा भ्रमितुमारब्धा यावन्न किंचित्सत्त्वं पश्यन्ति
तावद्व्युदस्य कथनकं दुष्टमन्त्रमारब्धाः कर्तुम् । तत्र वायस आह । विना-
शिता वयमनेन स्वामिना स्वाधीनेऽप्यर्थे । तावाहतुः । कथम् । सोऽब्रवीत् ।
इमं कथनकमेव हत्वा किं न प्राणयात्रां कुर्म इति । तावाहतुः । अयमस्माकं
विश्वासोपगतः शरणागतो वयस्यत्वेऽनुज्ञातः । स आह । शष्पभुजः पिशिता-
शिनश्च विषमसंबन्धाः । ततस्तावूचतुः । स्वामिनाप्यस्याभयप्रदानं दत्तम् ।
तेन चायुक्तमशक्यं चैतदिति । पुनरपि वायसोऽब्रवीत् । तिष्ठत यूयं यावदह-
मेवैतदर्थं संप्रतिपादयिष्यामि । इत्युक्त्वा सिंहकाशमगमत् । सिंहेन चाभि-
हितम् । अन्विष्टं युष्माभिं किंचित् सत्त्वमिति । काकोऽब्रवीत् । यस्य
चक्षुर्बलं वा स्यात्सोऽन्विष्यतु । वयं तु सर्व एवाहारवैकल्यादन्धा:धाः परि-
क्षीणशक्तयश्च । किं तु प्राप्तकालमवश्यं विज्ञाप्य:यः स्वामी । विनाशितः
स्वात्मनात्मा स्वाधीनेऽप्याहारे । सिंहोऽब्रवीत् । कथम् । काक आह ।
नन्वयं कथनक इति । सिंह:हः सकोपमाह । कष्टम् । नृशंसमेतत् । मयास्या-
भ्युपपत्तिरभयं च दत्तम् । तत्कथं व्यापादयामि । अपि च
परिभ्रष्ट उष्ट्रो दृष्टः । तं चाविज्ञातपूर्वरूपं हास्यजननं दृष्ट्वा सिं
इदमपूर्वं सत्त्वमिह वने पृच्छ्यताम् । कस्त्वं कुत आगत इति । ततोऽवगत-
तत्त्वार्थो वायसोऽब्रवीत् । कथनकनामोष्ट्रोऽयमिति । ततस्तैर्विश्वास्य सिंह-
सकाशमानीतः । तेनापि यथावृत्तमात्मनो वियो
सिंहेन चास्याभ्युपपत्तिरभयप्रदानं च दत्तम् । एवं च वर्तमाने कदाचित्
सिंहो वन्यगजयुद्धरदनक्षतशरीरो गुहवासी संवृत्तः । पञ्चषट्सप्तदिवसाति-
क्रान्ते च काले सर्व एव त आहारवैकल्यादात्यायिकमापतिताः । यतोऽव-
सन्नास्ततः सिंहेनाभिहिताः । अहमनया क्षतरुजा न क्षमः पूर्ववदाहारं भवता-
मुत्पादयितुम् । तद्यूयमात्मार्थेऽपि तावदभ्युद्यमं कुरुध्वमिति । ततस्ते प्रोचुः ।
एवं स्थितेषु देवपादेषु किमस्माकं पुष्ट्यर्थेन । इति सिंह आह । साध्वनु-
जीविवृत्तं मदुपरि भक्तिश्च भवताम् । अतिशोभनमभिहितम् । शक्ता भवन्तः
सजश्चाहम् । तन्ममैतदवस्थस्योपनयताहारमिति । यदा च न किंचिदूचुस्ते
तदानेनाभिहिताः । किमनया व्रीडया । अन्विष्यतां किंचित्सत्त्वम् । अहमेत-
दवस्थोऽपि युष्माकमात्मनश्चोत्पादयिष्ये प्राणयात्रार्थमिति । एवमुक्तास्तेऽप्यु-
त्थाय वनान्तरं प्रविष्टा भ्रमितुमारब्धा यावन्न किंचित्सत्त्वं पश्यन्ति
तावद्व्युदस्य कथनकं दुष्टमन्त्रमारब्धाः कर्तुम् । तत्र वायस आह । विना-
शिता वयमनेन स्वामिना स्वाधीनेऽप्यर्थे । तावाहतुः । कथम् । सोऽब्रवीत् ।
इमं कथनकमेव हत्वा किं न प्राणयात्रां कुर्म इति । तावाहतुः । अयमस्माकं
विश्वासोपगतः शरणागतो वयस्यत्वेऽनुज्ञातः । स आह । शष्पभुजः पिशिता-
शिनश्च विषमसंबन्धाः । ततस्तावूचतुः । स्वामिनाप्यस्याभयप्रदानं दत्तम् ।
तेन चायुक्तमशक्यं चैतदिति । पुनरपि वायसोऽब्रवीत् । तिष्ठत यूयं यावदह-
मेवैतदर्थं संप्रतिपादयिष्यामि । इत्युक्त्वा सिंहकाशमगमत् । सिंहेन चाभि-
हितम् । अन्विष्टं युष्माभिं किंचित् सत्त्वमिति । काकोऽब्रवीत् । यस्य
चक्षुर्बलं वा स्यात्सोऽन्विष्यतु । वयं तु सर्व एवाहारवैकल्यादन्
क्षीणशक्तयश्च । किं तु प्राप्तकालमवश्यं विज्ञाप्
स्वात्मनात्मा स्वाधीनेऽप्याहारे । सिंहोऽब्रवीत् । कथम् । काक आह ।
नन्वयं कथनक इति । सिं