This page has been fully proofread once and needs a second look.

तदन्तः संरोधं न गणयति संध्यासमयजं
जनोऽर्थी नापायं विमृशति फलैकान्ततृषितः ॥ १०९ ॥
 
कमलमधुनस्त्यक्त्वा पानं विहाय नवोत्पलं
प्रकृतिसुभगां गन्धोद्दामामपास्य च मालतीम् ।
शठमधुकरा:राः क्लिश्यन्तीमे कटाम्बुषु दन्तिनां
सुलभमपहायैवं लोकः कटेषु हि रज्यते ॥ ११० ॥
 
गण्डोपान्तेष्वचिरनिसृतं वारि मत्तद्विपानां
ये सेवन्ते नवमधुरसास्वादलुब्धा द्विरेफाः ।
ते तत्कर्णव्यजनपवनप्रेङ्खितैर्भिन्नदेहा
भूमिं प्राप्ताः कमलविवरक्रीडितानि स्मरन्ति ॥ १११ ॥
 
अथवा गुणवतामेवायं दोषः । यतः
 
स्वफलनिचयः शाखाभङ्गं करोति वनस्पते-
र्गमनमलसं बर्हाटोपः करोति शिखण्डिनः ।
चतुरगमनो यो जात्योऽश्व:वः स गौरिव वाह्यते
गुणवति जने प्रायेणैते गुणा:णाः खलु वैरिणः ॥ ११२ ॥
 
नरेन्द्रा भूयिष्ठं गुणवति जनेऽत्यन्तविमुखाः
स्त्रियः प्रायो लोभाद्व्यसनिषु च मूर्खेष्वभिरताः ।
नराणां माहात्म्यं गुणत इति मिथ्या स्तुतिरियं
जनः प्रायेणायं न हि पुरुषतत्त्वं गणयति ॥ ११३ ॥
 
सिंह:हः पञ्जरयन्त्रणापरिभवप्रम्लानदीनाननै-
र्नागैरङ्कुशभिन्नमस्तकतटैर्मन्त्रालसै:सैः पन्नगैः ।
विद्वद्भिश्च निराश्रयव्यसिनिभिः शूरैश्च भाग्यक्षतैः
काल:लः क्रीडनकैरिवात्मरुचितैः प्रेङ्खोलयन् क्रीडति ॥ ११४ ॥
 
तत्सर्वथा क्षुद्रमण्डलान्तरप्रविष्टस्य मे जीवितमेव नास्ति । उक्तं च
 
बहवः पण्डिताः क्षुद्राः सर्वे मायोपजीविनः ।
कुर्युर्दोषमदोषं वा उष्ट्रे काकादयो यथा ॥ ११५ ॥
 
दमनक आह । कथं चतत् । सोऽब्रवीत् ।
 
अथ सिंहानुचरोष्ट्रकथा नामाष्टमी कथा
 
अस्ति कस्मिंश्चिद्देशे महोत्कटो नाम सिंहः प्रतिवसति स्म ।