This page has been fully proofread once and needs a second look.

नश्यन्ति गुणशतान्यपि पुरुषाणामगुणवत्सु पुरुषेषु ।
अञ्जनगिरिशिखरेष्विव निशासु चन्द्रांशवः पतिताः ॥ १०१ ॥
 
कृतशतमसत्सु नष्टं सुभाषितशतं च नष्टमबुधेषु ।
वचनशतमवचनकरे बुद्धिशतमचेतने नष्टम् ॥ १०२ ॥
 
नष्टमपात्रे दानं नष्टं हितमहि तबुद्धिविज्ञाने ।
नष्टं कृतमकृतज्ञे नष्टं दाक्षिण्यमगुणज्ञे ॥ १०३ ॥
 
अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं
स्थलेऽब्जमवरोपितं बधिरकर्णजापः कृतः ।
श्वपुच्छमवनामितं सुचिरमूषरे वर्षितं
कृतान्धमुखमण्डना यदबुधो जनः सेवितः ॥ १०४ ॥
 
चन्दनतरुषु भुजंगा जलेषु कमलानि तत्र च ग्राहाः ।
गुणघातिनः खलु खला भोगेषु क्व नु सुखान्यविघ्नानि ॥१०५॥
 
केतक्यः कण्टकैर्व्याप्ता नलिन्यः पङ्कसंभवाः ।
विलासिन्यः सकुट्टिन्यः क्व रत्नमनुपद्रवम् ॥ १०६ ॥
 
दमनक आह । अयं तावत् स्वामी पिङ्गलक आदौ वाङ्मधुरः परि-
णामे विषप्रतिमचित्तो मया ज्ञात इति । विचिन्त्य संजीवकोऽब्रवीत् । भद्र ।
एवमेवैतत् । मयैवैतदस्मादनुभूतम् । यथा
 
दूरादुच्छ्रितपाणिरार्द्रनयनः प्रोत्सारितार्धासनो
गाढालिङ्गनतत्परः प्रियकथाप्रश्नेषु दत्तोत्तरः ।
अन्तर्गूढविषो बहिर्मधुमयश्चातीव मायापटुः
को नामायमपूर्वनाटकविधिर्यः शिक्षितो दुर्जनैः ॥ १०७ ॥
 
आदावप्युपचारचाटुविनयालंकारशोभान्वितं
मध्ये चापि विचित्रवाक्यकुसुमैरभ्यर्चितं निष्फलैः ।
पैशुन्याविनयावमानमलिनं बीभत्समन्ते च यद्
दूरे वोऽस्त्वकुलीनसंगतमसद्धर्मार्थमुत्पादितम् ॥ १०८ ॥ 25
 
कष्टं भोः । काहं शष्पभक्षः क्वायमामिषभक्षसिंहसंसर्गः । साधु चेद-
मुच्यते ।
 
हुताशज्वालाभे स्थितवति रवावस्तशिखरे
पिपासुः किञ्जल्कं प्रविशति सरोजं मधुकरः ।