This page has not been fully proofread.

सिंहवृषभकथा
 
नश्यन्ति गुणशतान्यपि पुरुषाणामगुणवत्सु पुरुषेषु ।
अञ्जन गिरिशिखरेष्विव निशासु चन्द्रांशव: पतिताः ॥ १०१ ॥
कृतशतभसत्सु नष्टं सुभाषितशतं च नष्टमबुधेषु ।
वचनशतमवचनकरे बुद्धिशतमचेतने नष्टम् ॥ १०२ ॥
नष्टमपात्रे दानं नष्टं हितमहि तबुद्धिविज्ञाने ।
 
नष्टं कृतमकृतज्ञे नष्टं दाक्षिण्यमगुणज्ञे ॥ १०३ ॥
अरण्यरुदितं कृतं शवशरीरमुद्वर्तित
स्थलेजमवरोपितं बधिरकर्णजापः कृतः ।
वपुच्छमवनामितं सुचिरमूषरे वर्षितं
 
कृतान्धमुखमण्डना यदबुधो जनः सेवितः ॥ १०४ ॥
चन्द्रनतरुषु भुजंगा जलेषु कमलानि तत्र च प्राहाः ।
गुणघातिनः खलु खला भोगेपु क नु सुखान्यविनानि ॥१०५॥
केतक्यः कण्टकैया नलिन्यः पसंभवाः ।
 
तन्त्रम १ ]
 
२९
 
हताश ज्वाला स्थितवति रवावस्तशिखरे
 
पिपासुः किल्कं प्रविशति सरोजं मधुकरः ।
 
5
 
10
 
विलासिन्यः सकुट्टिन्य: क रत्नमनुपद्रवम् ॥ १०६ ॥
 
दमनक आह । अयं तावत् स्वामी पिङ्गलक आदौ वाङ्मधुर : परि- 15
णामे विपप्रतिमचित्तो मया ज्ञात इति । विचिन्त्य संजीवकोऽब्रवीत् । भद्र ।
एवमेवैतत् । मयैवैतदस्माद्नुभूतम् । यथा
दुराहुच्छ्रितपाणिरार्द्रनयन: प्रोत्सारितार्थासनो
गाढालिङ्गनतरपरः प्रियकथाप्रश्रेषु दत्तोत्तरः ।
अन्तर्गृढविषो बहिर्मधुमयञ्चातीव मायापटुः
 
20
 
को नामायमपूर्वनाटक विधिर्यः शिक्षितो दुर्जनैः ॥ १०७ ॥
आढावप्युपचार
चाड विनयालंकारशोभान्वितं
 
मध्ये चापि विचित्रवाक्यकुसुमैरभ्यर्चितं निष्फलैः ।
पैशुन्या विनयावमानमलिनं बीभत्समन्ते च यद्
 
दूरे वोऽस्त्वकुलीनसंगत मसद्धर्मार्थमुत्पादितम् ॥ १०८ ॥ 25
कष्टं भोः । काहं शष्पक्ष: क्कायमामिषभक्षसिंहसंसर्ग: । साधु चेद-
मुच्यते ।