This page has been fully proofread once and needs a second look.

कुहकचकितो लोकः सत्येऽप्यपायमपेक्षते ॥ ९४ ॥
 
अथवा
 
व्यलीकमपरंपरेण न हि नाम नोत्पाद्यते
न चापि न भवन्त्यकारणवशेन रोषोद्गमा:माः
न तु प्रतिविशिष्टबुद्धिरसमीक्ष्य तत्त्वार्थत-
श्चिरानुगतसर्वभावहृदयो जनस्त्यज्यते ॥ ५ ॥
 
अपि च
 
वैद्यविद्वज्जनामात्या यस्य राज्ञः प्रियंवदाः ।
आरोग्यधर्मकोशेभ्यः क्षिप्रं स परिहीयते ॥ ९६ ॥
 
आह च । किं मयापकृतं स्वामिनः पिङ्गलकस्य । दमनक आह । वयस्य
निर्निमित्तापकारा हि पररन्ध्रान्वेषिणश्च राजानो भवन्ति । सोऽब्रवीत् ।
एवमेतत् । साधु चेदमुच्यते ।
 
भक्तानामुपकारिणां प्रियहितव्यापारयुक्तात्मनां
सेवासंव्यवहारतत्त्वविदुषां द्रोहच्युतानामपि ।
व्यापत्तिः स्खलितान्तरेषु नियता सिद्धिर्भवेद्वा न वा
तस्मादम्बुपतेरिवावनिपतेः सेवा सदाशङ्किनी ॥ ७ ॥
 
स्वभावश्चायम् ।
 
भावस्निग्धैरुपकृतमपि द्वेष्यतामेति किंचि-
च्छाठ्यादन्यैरपकृतमपि प्रीतिमेवोपयाति ।
दुर्ग्राह्यत्वान्नृपतिमनसां नैकभावाश्रयाणां
सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ ९८ ॥
 
गुणा गुणज्ञेषु गुणीभवन्ति
ते निर्गुणं प्राप्य भवन्ति दोषाः ।
सुस्वादुतोयप्रवहा हि नद्यः
समुद्रमासाद्य भवन्त्यपेयाः ॥ ९९ ॥
 
स्वल्पेऽपि गुणाः स्फीतीभवन्ति गुणसमुदितेषु पुरुषेषु ।
शशिनः श्वेतस्य गिरेः शिखरप्राप्ता इव मयूखाः ॥ १०० ॥