This page has been fully proofread once and needs a second look.

कः कालस्य न गोचरान्तरगतः कोऽर्थी गतो गौरवं
को वा दुर्जनवागुरानिपतितः क्षेमेण यातः पुमान् ॥ ८९ ॥
 
तत्सर्वथा
 
कः कालः कानि मित्राणि को देशः को व्ययागमौ ।
कश्चाहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥ ९० ॥
 
हृदयान्तर्निहितभावस्य तस्य वचनं श्रुत्वा संजीवकोऽब्रवीत् । भद्र । अथ
किमत्र । स आह । यद्यपि राजविश्वासो न कथनीयस्तथापि भवांस्तावन्मत्सं-
प्रत्ययादागतः स्थितश्च । तदवश्यं मया तव हितमाख्येयम् । अयं स्वामी पिङ्ग-
लकस्तवोपरि द्रुग्धबुद्धिः । अनेन चाद्याभिहितम् । संजीवकं हत्वा स्वपरिवारं
तदामिषेण तर्पयामीति । एतच्छ्रुत्वा संजीवकः परं विषादमगमत् । दमनक
आह । यदत्र करणीयं तदहीनकालं संचिन्त्यतामिति । पूर्वकालं श्रद्धेयवचन-
त्वाच्च दमनकस्य सुतरामाविग्नहृदयः परं भयमुपागतः संजीवक आह । सुष्ठु
खल्विदमुच्यते ।
 
दुर्जनगम्या नार्यः प्रायेणापात्रभृद्भवति राजा ।
कृपणानुसारि च धनं देवो गिर्युदधिवर्षी च ॥ ९१ ॥
 
एवं चाचिन्तयत् । कष्टं भोः । किमिदमापतितं ममेति । अपि च
 
आराध्यमानो नृपतिः प्रयत्ना-
दाराध्यते नाम किमत्र चित्रम् ।
अयं त्वपूर्व:वः प्रतिमाविशेषो
यः सेव्यमानो रिपुतामुपैति ॥ ९२ ॥
 
तत्सर्वथाशक्योऽयमर्थः ।
 
निमित्तमुद्दिश्य हि यः प्रकुप्यति
ध्रुवं स तस्यापगमे प्रसीदति ।
अकारणद्वेषि मनो हि यस्य वै
कथं परस्तं परितोषयिष्यति ॥ ९३ ॥
 
साधु चेदमुच्यते ।
 
सरसि बहुशस्ताराछायां दशन परिवञ्चितः
कुमुदविटपान्वेषी हंसो निशास्वविचक्षणः ।
न दशति पुनस्ताराशङ्की दिवापि सितोत्पलं