This page has not been fully proofread.

सिंहवृषभकथा
 
कः कालस्य न गोचरान्तरगतः कोऽर्थी गतो गौरव
 
को वा दुर्जनवागुरानिपतितः क्षेमेण यातः पुमान् ॥ ८९ ॥
 
तन्त्रम् १ ]
 
तत्सर्वथा
 
5
 
कः कालः कानि मित्राणि को देश को व्ययागमौ ।
काहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥ ९० ॥
हृदयान्तर्निहितभावस्य तस्य वचनं श्रुत्वा संजीवकोऽब्रवीत् । भद्र अथ
किमब। स आह । यद्यपि राजविश्वासो न कथनीयस्तथापि भवांस्तावन्मत्सं
प्रत्ययादागतः स्थितञ्च । तवश्यं मया तव हितमाख्येयम् । अयं स्वामी पिङ्ग-
लकस्तवोपरि द्रग्धबुद्धिः । अनेन चाद्याभिहितम् । संजीवकं हत्वा स्वपरिवारं
तदामिषेण तर्पयामीति । एतत्व संजीवकः परं विषादमगमत् । दमनक 10
आह । यदत्र करणीयं तदहीनकालं संचिन्त्यतामिति । पूर्वकालं श्रद्धेयवचन-
त्वाच दमनकस्य सुतराभाविग्रहृदयः परं भयमुपागतः संजीवक आह । सुष्टु
ग्वल्विदमुच्यते ।
 
दुर्जनगम्या नार्यः प्रायेणापात्रभृद्भवति राजा ।
कृपणानुसारि च धनं देवो गिर्युदधिवर्षी च ॥ ९१ ॥
एवं चाचिन्तयत् । कष्टं भोः । किमिटमापतितं ममेति । अपि च
आराध्यमानो नृपतिः प्रयत्ना-
दाराध्यते नाम किमत्र चित्रम् ।
अयं त्वपूर्व: प्रतिमाविशेषो
 
यः सेव्यमानो रिपुतामुपैति ॥ ९२ ॥
 
तत्सर्वथाशक्योऽयमर्थः ।
 
निमित्तमुद्दिश्य हि यः प्रकुप्यति
 
ध्रुवं स तस्यापगमे प्रसीदति ।
अकारणद्वेषि मनो हि यस्य वै
 
कथं परम्तं परितोषयिष्यति ॥ ९३ ॥
 
साधु चेदमुच्यते ।
 
२७
 
सरसि बहुशस्ताराछायां दशन परिवश्वितः
कुमुद विटपान्वेषी हंसो निशास्त्रविचक्षणः ।
न दशति पुनस्ताराशङ्की दिवापि सितोपल
 
15
 
20
 
25