2023-04-11 11:46:25 by Alok Kumar
This page has been fully proofread once and needs a second look.
व्यमिति । सोऽब्रवीत् । कोऽस्य कालोऽनभिज्ञोऽहमपरिचितत्वात् । सा त्व-
कथयत् । मधुपानश्रमागतनिद्रस्य गतिविलासनिर्भरसुतस्य च शनैर्मृदुतया
भवता विचारणीयम् । मदश्रमनिद्रापरीतकाले नाशु प्रबुध्यत इति । तथैव च
तेन प्रतिपन्नम् । एवं वर्तमाने प्रथमप्रदोष एव तेन कालानभिज्ञेन बुभुक्षया
चार्तेन सुप्तमात्र एव पृष्ठप्रदेशे दृष्टो राजा । असावपि पार्थिव उल्मुकदग्ध
इव ससंभ्रममुत्थायाह । अरे दष्टोऽस्मि केनापि निरूप्यतामिति । अथ
मत्कुणश्चकितत्वाद्राजवचनं श्रुत्वा शयनादवतीर्यान्यद्विवरं प्रविष्टः । शय्या-
पालैरपि स्वाम्यादेशाद्दीपिकामादाय सुनिपुणमन्विषद्भिर्वस्त्रं संपरिवर्तयद्भि-
रन्तर्लीना मन्दविसर्पिणी दृष्टा व्यापादिता च ।
इति सप्तमी कथा समाप्ता ।
अतोऽहं ब्रवीमि । न त्वविज्ञातशीलायेति । आख्याते चाख्याने
पिङ्गलक आह । भद्र कथमसौ ज्ञातव्यो मया द्रोहबुद्धिरिति कश्चास्य युद्ध-
मार्ग इति । दमनकोऽब्रवीत् । अन्यदासौ स्रस्ताङ्गो देवपादान्तिकमागच्छति ।
अद्य यदि शृङ्गाग्रप्रहरणाभिमुखो युद्धचित्तः सचकितो दिशोऽवलोकयंश्चो-
पश्लिष्येत् तद्देवपादैरवगन्तव्यं द्रुग्धबुद्धिरयमिति । एवमुक्त्वा सिंहं विकृत-
हृदयं विधाय दमनकः संजीवकसकाशं प्रायात् । तस्यापि मन्दगतिरधृति-
परीतमिवात्मानमदर्शयत् । ततस्तेन सादरमभिहितः । भद्र भवतः कुशल-
मिति । दमनकोऽब्रवीत् । कुतः खलु कुशलमनुजीविनाम् । कस्मात्
संपत्तयः परायत्ताः सदा चित्तमनिर्वृतम् ।
स्वजीवितेऽप्यविश्वासस्तेषां ये राजसंश्रिताः ॥ ८७ ॥
सुष्ठठु चेदमुक्च्यते ।
आचार्या नरपतयश्च तुल्यशीला
न ह्येषां परिचितिरस्ति सौहृदं वा ।
शुश्रूषां चिरमपि संचितां प्रयत्नात्
संक्रुद्धा रज इव नाशयन्ति मेघाः ॥ ८८ ॥
अपि च
कोऽर्थान् प्राप्य न गर्वितो भुवि नरः कस्यापदोऽस्तं गताः
स्त्रीभिः कस्य न खण्डितं भुवि मनः को नाम राज्ञां प्रियः ।

सुष्