This page has been fully proofread once and needs a second look.

सोऽन्नभूतो देवपादा भोक्तृभूताः । तथाप्यसौ यदि स्वयमनर्थं न करिष्यति
ततोऽन्यस्मादुत्पादयिष्यति। सिंह आह । का शक्तिरस्य स्वतोऽपकर्तुं परतोऽप-
कर्तुं वा । सोऽब्रवीत् । त्वं तावदजस्रमनेकमत्तगजगवयमहिषवराहशार्दूलचित्र-
कयुद्धेषु नखदन्तसंनिपातकृतव्रणशबलतनुः । अयं पुनः सदा त्वत्समीपवासी
प्रकीर्णविण्मूत्रः । तदनुषङ्गाच्च कृमयः संभविष्यन्ति । ते युष्मच्छरीरसामीप्यात्
क्षतविवरानुसारिणोऽन्तः प्रवेक्ष्यन्ति । तथापि त्वं विनष्ट एव । उक्तं च
 
न त्वविज्ञातशीलाय कश्चिद्दद्यात् प्रतिश्रयम् ।
टिण्टिभस्य हि दोषेण हता मन्द विसर्पिणी ॥ ८६ ॥
 
पिङ्गलक आह । कथमेतत् । सोऽब्रवीत् ।
 
अथ यूकामत्कुणकथा नाम सप्तमी कथा ।
 
अस्ति कस्यचिद्राज्ञो वासगृहे सर्वगुणोपेतमनन्यसदृशं शयनम् । तत्र
प्रच्छदपटैकदेशे मन्दविसर्पिणी नाम यूका प्रतिवसति स्म । सा च तस्य
महीपते रक्तमास्वादयन्ती सुखेन चिरं कालं नयमाना तिष्ठति । अथ कदा-
चित्तस्मिञ् छयने टिण्टिभो नाम मत्कुणो वायुना प्रेरितः संनिपतितः ।
स तु तच्छयनमतिसूक्ष्मोत्तरछदमुभयोपधानं जाह्नवीपुलिनविपुलं परममृदु
सुरभिगन्धं दृष्ट्वा परं परितोषमुपगतः । तत्स्पर्शाकृष्टमना इतश्चेतश्च परिभ्रमन्
कथमपि तया मन्दविसर्पिण्या दृष्टः । तया चाभिहितः । कुतस्त्वमस्मिन्न-
योग्याधिवास आगतः । अपगम्यतामस्मादिति । सोऽब्रवीत् । आर्ये मया
तावदनेकप्रकाराणि ब्राह्मणक्षत्रियविट्छूद्रान्तःस्थानि रुधिराण्यास्वादितानि ।
तानि तु रुक्षाणि पिछिलान्यतुष्टिकराण्यमनोज्ञानि । यः पुनरस्य शयनस्या-
धिष्ठाता तस्यासंशयं मनोरमममृतोपमं चासृग्भविष्यति । अजस्रं भिषग्भिः
प्रयत्नादौषधाद्युपक्रमाद्वातपित्तश्लेष्मनिरोधादनामयतया स्निग्धपेशलद्रवैः स-
खण्डगुडदाडिमत्रिकटुकपटुभि:भिः स्थलजजलजखेचरबलवत्प्रधानपिशितोपबृंहि-
तैराहारैरुपचितं रुधिरं रसायनमिव मन्ये । तत्र सुरभि पुष्टिकरं चेच्छाम्यहं
त्वत्प्रसादादास्वादयितुमिति । अतोऽसौ मन्दविसर्पिण्याह । असंभाव्यमेतत्
त्वद्विधानामनग्निमुखानां दंशवृत्तीनाम् । अतोऽपगम्यतामस्माच्छयनादिति ।
ततः सोऽस्याः पादयोर्निपत्य पुनस्तदेव प्रार्थितवान् । सा तु दाक्षिण्यात्
तथा मामेति प्रतिपन्ना । किं तु नैवाकाले न चातिमृदुभागे त्वयास्य प्रहर्त-