This page has not been fully proofread.

कथा ७ ]
 
यूकामत्कुणकथा
 
२५
 
सोऽन्नभूतो देवपादा भोक्तृभूताः । तथाप्यसो यदि स्वयमनथे न करिष्यति
ततोऽन्यस्मादुत्पादयिष्यति। सिंह आहु का शक्तिरस्य स्वतोऽपकर्तुं परतोऽप
कर्तुं वा । सोऽब्रवीत् । त्वं तावद्जस्त्रमनेक मत्तगजगवयमहिषवराहशार्दूलचित्र -
कयुद्धेषु नखदन्तसनिपातकृतव्रणशबलतनुः । अयं पुनः सदा त्वत्समीपवासी
प्रकीर्णविणसूत्रः । तद्नुषङ्गाच कृमयः संभविष्यन्ति । ते युष्मच्छरीरसामीप्यात् 5
अतविवरानुसारिणोऽन्तः प्रवेक्ष्यन्ति । तथापि त्वं विनष्ट एव । उक्तं च
 
न त्वविज्ञातशीलाय कश्चिद्दद्यात् प्रतिश्रयम् ।
टिण्टिभस्य हि दोषेण हता मन्द विसर्पिणी ॥ ८६ ॥
पिङ्गलक आह । कथमेतत् । सोऽब्रवीत् ।
 
अथ यूका मत्कुणकथा नाम सप्तमी कथा ।
 
10
 
अस्ति कस्यचिद्राशो वासगृहे सर्वगुणोपेत मनन्यसदृशं शयनम् । तत्र
प्रच्छद पटैकदेशे मन्द विसर्पिणी नाम यूका प्रतिवसति स्म । सा च तस्य
महीपते रक्तमास्वादयन्ती सुखेन चिरं कालं नयमाना तिष्ठति । अथ कदा-
चित्तस्मिन् छयने टिण्टिभो नाम मत्कुणो वायुना प्रेरितः संनिपतितः ।
स तु तच्छयनमतिसूक्ष्मोत्तरछदमुभयोपधानं जाह्नवीपुलिनविपुलं परममृदु 15
सुरभिगन्धं दृष्टा परं परितोषमुपगतः । तत्स्पर्शाकृष्टमना इतश्चेत परिभ्रमन,
कथमपि तया मन्द विसर्पिण्या दृष्टः । तया चाभिहितः । कुतस्त्वमस्मिन्न-
योग्याधिवास आगतः । अपगम्यतामस्मादिति । सोऽब्रवीत् । आर्ये मया
तावदनेकप्रकाराणि ब्राह्मणक्षत्रियविछूद्रान्तःस्थानि रुघिराण्यास्वादितानि ।
तानि तु रक्षाणि पिछिलान्यतुष्टिकराज्यमनोज्ञानि । यः पुनरस्य शयनस्या 20
मिता तस्यासंशयं मनोरमममृतोपमं वाग्भविष्यति । अजस्रं भिषग्भिः
प्रयत्नादौषधापक्रमाद्वातपित्तले हम निरोधादनामयतया स्निग्धपेशलद्रवैः स.
लण्डगुडदा डिमन्त्रिकटुकपटुभि: स्थलजजलजखम्बरबलवत्प्रधान पिशितोपबृंहि-
तैराहा रैरुपाचतं रुधिरं रसायनमिष मन्ये तब सुरभि पुष्टिकरं बेच्छाम्यहं
त्वत्प्रसादादास्वादयितुमिति । अतोऽसौ मन्द विसर्पिण्याह । असंभाव्यमेतत् 23
त्वद्विधानामनिमुखानां वंशवृत्तीनाम् । असोऽपगम्यतामस्माच्छयनादिति ।
ततः सोऽस्याः पादयोनिपत्य पुनस्तदेव प्रार्थितवान् । सा तु दाक्षिण्यात्
तथा मामेति प्रतिपमा । किं तु नैवाकाले न चातिमृदुभागे त्वयास्य प्रहर्त