This page has been fully proofread once and needs a second look.

अन्यच्च । येनैतदभिहितम् ।
 
स्वजनोऽथ सुहृन्नृपो गुरुर्वा
पुरुषेणोत्पथगो निवारणीयः ।
विनिवर्तयितुं स चेदशक्यः
परतस्तस्य मनोऽनुगं विधेयम् ॥ ८० ॥
 
स तावद्द्रोही। किं तु
 
हितकृद्भिरकार्यमीहमाना:नाः
सुहृदः क्लेशपरिग्रहान्निवार्या:याः
परिपूर्णमिदं हि साधुवृत्तं
कथितं सद्भिरसाधुवृत्तमन्यत् ॥ ८१ ॥
 
स स्निग्धोऽकुशलान्निवारयति यस्तत्कर्म यन्निर्मलं
सा स्त्री यानुविधायिनी स मतिमान्यः सद्भिरभ्यर्च्यते ।
सा श्रीर्या न मदं करोति स सुखी यस्तृष्णया नोह्यते
तन्मित्रं यदयन्त्रणं स पुरुषो यः खिद्यते नेन्द्रियैः ॥ ८२ ॥
 
सुप्तं वह्नौ शिरः कृत्वा भुजंगप्रस्तरे वरम् ।
अप्युपेक्षेत सन्मित्रं न पुनर्व्यसनोन्मुखम् <error>॥</error><fix>॥ ८३ ॥</fix>
 
तद्यदिदं संजीवकसंसर्गव्यसनं तद्देवपादानां <error>त्रिवर्गहाकरम्</error> । अथ
बहुप्रकारं विज्ञप्यमाना अपि देवपादा मद्वचनमाक्षिप्य कामतः प्रवर्तते । तदु-
त्तरत्रापचारे भृत्यदोषो न कार्य इति । उक्तं च
 
नृपः कामासक्तो गणयति न कार्य न च हितं
यथेष्टं स्वच्छन्दः प्रविचरति मत्तो गज इव ।
ततो मानाध्मातः पतति स यदा शोकगहने
तदा भृत्ये दोषान् क्षिपति न निजं वेत्स्यविनयम् ॥ ८४ ॥
 
सिंह आह । भद्र । एवमवस्थिते किमसौ प्रत्यादेश्यः । दमनक आह । कथं
प्रत्यादिश्यते । कतर एष नयः ।
 
प्रत्यादिष्टस्त्वरते रिपुरपकर्तुं बलात् प्रहर्तुं वा ।
तस्मात् प्रत्यादेष्टुं न्याय्योऽरिः कर्मणा न गिरा ॥ ८५ ॥
 
सिंह आह । स तावच्छष्पभुग् वयं पिशितभुजस्तत्किमसौ ममापकर्तुं
समर्थ:थः । दमनक आह । एवमेतत् । स शष्पभुग् देवपादाः पिशितभुजः ।