This page has been fully proofread once and needs a second look.

5
 
10
 
15
 
20
 
२४
 
मित्रभेदम्
 
अन्यच्च । येनैतदभिहितम् ।

 
स्वजनोऽथ सुहृन्नृपो गुरु
र्वा
पुरुषेणोत्पथगो निवारणीयः ।
 

विनिवर्तयितुं स चेदशक्यः
 

परतस्तस्य मनोऽनुगं विधेयम् ॥ ८० ॥
 

 
तावद्द्रोही। किं तु

 
हितकृद्भिरकार्यमीहमाना:
 

सुहृदः केक्लेशपरिग्रहान्निवार्या: ।

परिपूर्णमिदं हि साधुवृत्तं
 
[ तन्त्रम् १
 

कथितं सद्भिरसाधुवृत्तमन्यत् ॥ ८१ ॥

 
स स्निग्धोऽकुशलान्निवारयति यस्तत्कर्म यन्निर्मलं

सा स्त्री यानुविधायिनी स मतिमान्यः सद्भिरभ्यर्च्यते ।

सा श्रीर्या न मदं करोति स सुखी यस्तृष्णया नोह्यते

तन्मित्रं यद॒यन्त्रणं स पुरुषो यः खिद्यते नेन्द्रियैः ॥ ८२ ॥

 
सुप्तं वहौह्नौ शिरः कृत्वा भुजंगप्रस्तरे वरम् ।

अप्युपेक्षेत सन्मित्रं न पुनर्व्यसनोन्मुखम् ॥
 

 
तद्यदिदं संजीवकसंसर्गव्यसनं तद्देवपादानां <error>त्रिवर्गहाकरम्</error> । अथ

बहुप्रकारं विज्ञप्यमाना अपि देवपादा मदूद्वचनमाक्षिप्य कामतः प्रवर्तते । तदु-

त्तरत्रापचारे भृत्यदोषो न कार्य इति । उक्तं च
 

 
नृपः कामासक्तो गणयति न कार्य न च हितं
 

यथेष्टं स्वच्छन्दः प्रविचरति मत्तो गज इव ।

ततो मानाध्मातः पतति स यदा शोकगहने
 

तदा भृत्ये दोषान् क्षिपति न निजं वेत्स्यविनयम् ॥ ८४ ॥

 
सिंह आह । भद्र । एवमवस्थिते किमसौ प्रत्यादेश्यः । दमनक आह । कथं
25

प्रत्यादिश्यते । कतर एष नयः ।
 

 
प्रत्यादिष्टस्त्वरते रिपुरपकर्तुं बलात् प्रहर्तुं वा ।
 

तस्मात् प्रत्यादेष्टुं न्याय्योऽरिः कर्मणा न गिरा ॥ ८५ ॥

 
सिंह आह । स तावच्छष्पभुग् वयं पिशितभुजस्तत्किमसौ मभामापकर्तुं

समर्थ: । दमनक आह । एवमेतत् । स शष्पभुग् देवपादाः पिशितभुजः ।