This page has been fully proofread once and needs a second look.

अनेकदोषदुष्टोऽपि कायः कस्य न वल्लभः ।
कुर्वन्नपि व्यलीकानि यः प्रियः प्रिय एव सः ॥ ७० ॥
 
दमनक आह । अत एवायं दोषः । व्युदस्य सर्वं मृगजनं स्वामिना
यस्योपर्यास्था प्रतिबद्धा सोऽयमधुना स्वामित्वमभिवाञ्छति । अपि च
 
यस्मिन्नेवाधिकं चक्षुरारोपयति पार्थिवः ।
सुते वा स्वकुलीने वा स लक्ष्म्या हरते मनः ॥ ७१ ॥
 
यच्च महाकायोऽयमिति त्वमुपकाराय चिन्तयसि तदपि विपरीतमेव ।

यतः
 
किं गजेन प्रामरभिन्नेन गजकर्माण्यकुर्वता ।
स्थले वा यदि वा निम्ने श्रेयान्कृत्यकरश्च यः ॥ ७२ ॥
 
तेन हि देव नायमुपायः ।
 
सतां मतिमतिक्रम्य योऽसतां वर्तते मते ।
न स जीवयितुं शक्यः सर्वभक्ष इवातुरः ॥ ७३ ॥

यो न निःश्रेयसे ज्ञाने सुहृदां वर्तते वशे ।
अचिरात्स च्युतः स्थानाद्द्विषतां वर्तते वशे ॥ ७४ ॥

अप्रियस्यापि वचसः परिणामाविरोधिनः ।
वक्ता श्रोता च यत्रास्ति रमन्ते तत्र संपदः ॥ ७५ ॥

मूलभृत्योपरोधेन नागन्तून् प्रतिमानयेत् ।
नातः परतरोऽन्योऽस्ति राज्यभेदकरो गदः॥ ७६ ॥
 
सिंह आह ।
 

उक्तो भवति यः पूर्वं गुणवानिति संसदि ।
न तस्य वाच्यं नैर्गुण्यं प्रतिज्ञां परिरक्षता ॥ ७७ ॥
 
अन्यश्च्च मयायं शरणागत इति कृत्वाभयवाचं दत्त्वानीतो वर्धितश्च ।
तत्कथमयमकृतज्ञो द्रुह्यति । दमनक आह ।
 
दुर्जनः प्रकृतिं याति सेव्यमानोऽपि यत्नतः ।
स्वेदनाभ्यञ्जनोपायैः श्वपुच्छमिव नामितम् ॥ ७८ ॥
 
अपि च
 
अपृष्टस्तस्य तद्भूयाद्यस्य नेच्छेत्पराभवम् ।
एष एव सतां धर्मो विपरीतो मतोऽन्यथा ॥ ७९ ॥