This page has been fully proofread once and needs a second look.

सिंहवृषभकथा
 

 
अनेकदोषदुष्टोऽपि कायः कस्य न वल्लभः ।
 

कुर्वन्नपि व्यलीकानि यः प्रियः प्रिय एव सः ॥ ७० ॥
 

 
दमनक आह । अत एवायं दोषः । व्युदस्य सर्व मृगजनं स्वामिना

यस्योपर्यास्था प्रतिबद्धा सोऽयमधुना स्वामित्वमभिवाञ्छति । अपि च

 
यस्मिन्नेवाधिकं चक्षुरारोपयति पार्थिवः ।
 

सुते वा स्वकुलीने वा स लक्ष्म्या हरते मनः ॥ ७१ ॥

 
यच्च महाकायोऽयमिति त्वमुपकाराय चिन्तयसि तदपि विपरीतमेव ।
 
तन्त्रम् १]
 

 
यतः
 

 
किं गजेन प्रामन्नेन गजकर्माण्य कुर्वता ।

स्थले वा यदि वा निश्रेयान्कृत्य
 
करश्च यः ॥ ७२ ॥
 
तेन हि देव नायमुपायः ।
 
यः ॥ ७२ ॥
 

 
सतां मतिमतिक्रम्य योऽसतां वर्तते मते ।

न स जीवयितुं शक्यः सर्वभक्ष इवातुरः ॥ ७३ ॥

यो न निःश्रेयसे ज्ञाने सुहृदां वर्तते वशे ।

अचिरात्स च्युतः स्थानाद्विषतां वर्तते वशे ॥ ७४ ॥

अप्रियस्यापि वचसः परिणामाविरोधिनः ।
 

वक्ता श्रोता च यत्रास्ति रमन्ते तत्र संपदः ॥ ७५ ॥

मूलभृत्योपरोघेधेन नागन्तून् प्रतिमानयेत् ।

नातः परतरोऽन्योऽस्ति राज्यभेदकरो गढ़ः दः॥ ७६ ॥
 

 
सिंह आह ।
 
२३
 

 
 
उक्तो भवति यः पूर्वं गुणवानिति संसदि ।
 

न तस्य वाच्यं नैर्गुण्यं प्रतिज्ञां परिरक्षता ॥ ७७ ॥

 
अन्यथ मश्च भयायंयै शरणागत इति कृत्वाभयवाचं दत्त्वानीतो वर्धितश्च ।

तत्कथमयमकृतज्ञो द्रुह्यति । दमनक आह ।
 

 
दुर्जनः प्रकृतिं याति सेव्यमानोऽपि यत्नतः ।

स्वेदनाभ्यञ्जनोपायैः श्वपुच्छमिव नामितम् ॥ ७८ ॥
 

 
अपि च
 

 
अष्टस्तस्य तद्भूयाद्यस्य नेच्छेत् पराभवम् ।

एष एवं सतां धर्मो विपरीतो मतोऽन्यथा ॥ ७९ ॥
 
5
 
10
 
15
 
20
 
25