This page has been fully proofread once and needs a second look.

अथ पिङ्गलकः श्रद्धेयवचनत्वात्तं सादरमाह । किं भवान् वक्तुमि-
च्छतीति । सोऽब्रवीत् । अयं तावत्संजीवकस्तवोपरि द्रुग्धमतिः । विश्वा-
सोपगतश्चायं मत्संनिधावाह । दृष्टास्य पिङ्गलकस्य मया सारासारता शक्ति-
त्रयस्य । यत एनं हत्वा स्वयमेवाहं राज्यं प्रहीष्यामीति । एतच्च वज्राशनि-
दुःसहतरं वचनं श्रुत्वा क्षुभितहृदयः पिङ्गलको मोहमुपागतो न किंचिदूचे ।
दमनकस्तु तस्याकारं दृष्ट्वैवमाह । अयं तावदेकमन्त्रिप्राधान्येन महान्दोष
आपतित:तः । साधु चेदमुच्यते ।
 
अत्युच्छ्रिते मन्त्रिणि पार्थिवे च
विष्टभ्य पादावुपतिष्ठते श्रीः ।
सा स्त्रीस्वभावादसहा भरस्य
तयोर्द्वयोरेकतरं जहाति ॥ ६५ ॥
 
एकं भूमिपतिः करोति सचिवं राज्ये प्रमाणं यदा
तं मोहात्छ्रयते मदः स च मदालस्येन निर्विद्यते ।
निर्विण्णस्य पदं करोति हृदये तस्य स्वतन्त्रस्पृहा
स्वातन्त्र्यस्पृहया ततः स नृपतेः प्राणानभिद्रुह्यति ॥ ६६ ॥
 
विषदिग्धस्य भक्तस्य दन्तस्य चलितस्य च ।
अमात्यस्य च दुष्टस्य मूलादुद्धरणं सुखम् ॥ ६७ ॥
 
स चाधुना निरवग्रहः सर्वकार्येषु स्वेच्छया प्रवर्तते । तत्किमत्र
युक्तम् । अपि च
 
कार्याण्यर्थोपमर्देन स्वनुरक्तोऽपि साधयन् ।
नोपेक्ष्यः सचिवो राज्ञा स तं मथ्नात्युपेक्षितः ॥ ६८ ॥
 
तच्च श्रुत्वा सिंहोऽब्रवीत् । अयं तावदसदृशो मम भृत्यः कथं ममो-
परि विकरिष्यति । सोऽब्रवीत् । देव भृत्योऽभृत्य इत्यनैकान्तिकमेतत् ।
 
उक्तं च
 
न सोऽस्ति पुरुषो राज्ञां यो न कामयते श्रियम् ।
अशक्ता भग्नमानास्तु नरेन्द्रं पर्युपासते ॥ ६९ ॥
 
सिंह आह । भद्र तथापि तस्योपरि मम चित्तं न प्रदुष्यति ।
यत्कारणम् ।