This page has not been fully proofread.

मित्रभेदम्
 
[ तन्त्रम् ?
 
अथ पिङ्गलकः श्रद्धेयवचनत्वात्तं सादरमाह । किं भवान् वक्कुमि-
च्छतीति । सोऽब्रवीत् । अयं तावत्संजीवकस्तवोपरि दुग्धमतिः । विश्वा-
सोपगतवायं मत्संनिधावाह । दृष्टास्य पिङ्गलकस्य मया सारासारता शक्ति -
त्रयस्य । यत एनं हत्वा स्वयमेवाहं राज्यं प्रहीष्यामीति । एतच्च वज्राशनि-
5 दुःसहतरं वचनं श्रुत्वा क्षुभितहृदयः पिङ्गलको मोहमुपागतो न किंचिदूचे ।
दमनकस्तु तस्याकारं दृष्श्र्वमाह । अयं तावदेकमन्त्रिप्राधान्येन महान्दोप
आपतित: । साधु चेदमुच्यते ।
 
अत्युचते मन्त्रिणि पार्थिवे च
विष्टभ्य पादावुपतिष्ठते श्रीः ।
सा स्त्रीस्वभावादसहा भरस्य
 
10
 
15
 
20
 
25
 
२२
 
तयोर्द्वयोरेकतरं जहाति ॥ ६५ ॥
 
एकं भूमिपतिः करोति सचिवं राज्ये प्रमाणं यदा
तं मोहाते मदः स च मदालस्येन निर्विद्यते ।
निर्विण्णस्य पदं करोति हृदये तस्य स्वतन्त्रस्पृहा
स्वातन्त्र्यस्या ततः स नृपतेः प्राणानभिद्रुह्यति ॥ ६६ ॥
विषदिग्धस्य भक्तस्य दन्तस्य चलितस्य च ।
अमात्यस्य च दुष्टस्य मूलादुद्धरणं सुखम् ॥ ६७ ॥
स चाधुना निरवग्रहः सर्वकार्येषु स्वेच्छया प्रवर्तते । तत्फमत्र
युक्तम् । अपि च
 
कार्याण्यर्थोपमर्दैन स्वनुरक्तोऽपि साधयन् ।
 
नोपेक्ष्यः सचिवो राज्ञा स तं मनात्युपेक्षितः ॥ ६८ ॥
 
तब श्रुत्वा सिंहोऽब्रवीत् । अयं तावदसदृशो मम भृत्यः कथं ममो-
परि विकरिष्यति । सोऽब्रवीत । देव भृत्योऽभृत्य इत्यनैकान्तिकमेतत् ।
 
उक्तं च
 
न सोऽस्ति पुरुषो राज्ञां यो न कामयते श्रियम ।
अशक्ता भनमानास्तु नरेन्द्रं पर्युपासते ॥ ६९ ॥
 
सिंह आह । भद्र तथापि तस्योपरि मम चित्तं न प्रदुष्यति ।
 
यत्कारणम ।