This page has been fully proofread once and needs a second look.

कदाचिज्जातिक्रमाच्छशकस्य वारः समायातः । स तु सर्वैर्मृगैः प्रेषितश्चिन्त-
यामास । अन्तकरोऽयं मृत्युमुखप्रवेशः । किमधुना प्राप्तकालं ममेति । अथवा
बुद्धिमतां किमशक्यम् । तत्सिंहमेवोपायेन व्यापादयामि । इति । तत
आहारवेलातिक्रमं कृत्वा मन्दं मन्दमगच्छत् । सिंहोऽपि क्षुत्क्षामकण्ठः
कोपाविष्टो भर्त्सयंस्तमाह । सुक्रुद्धैरपि किं क्रियतेऽन्यत्र प्राणवियोगात् ।
स त्वमद्य गतासुरेव । कथय कोऽयं तव वेलात्ययः । अथ प्रणम्य सविनयं
शशक:कः प्रोवाच । स्वामिन्नायं ममापराधः । अहमागच्छन्पथि सिंहान्तरेण
निरुध्य भक्षितुमुपक्रान्तः । ततो मयाभिहितम् । अहं स्वामिनो मदोन्मत्तस्य
सिंहस्य भोजनार्थं गच्छामि । ततस्तेनाभिहितम् । चौररूपी स मदोन्मत्तः ।
ततस्तमाहूय द्रुतमागच्छ येन यः कश्चिदावयोर्मध्यात् पराक्रमेण राजा
भविष्यति स सर्वानेवैतान्मृगान् भक्षयिष्यतीति । अतोऽहं स्वामिनं निवे-
दयितुमागतोऽस्मि । तच्छ्रुत्वा सिंह:हः सकोपमाह । कथमन्योऽत्र मद्भुजपरि-
रक्षिते वने सिंहः । सत्वरं गत्वा मम तं दुरात्मानं दर्शयस्वेति । शशक
आह । यद्येवं तदागच्छतु स्वामी तं दर्शयामीति । असावपि शशकस्तं
गृहीत्वा विमलजलसंपन्नं महान्तं कूपमत्र तं पश्येत्यदर्शयत् । ततः सोऽपि
मूर्ख:खः सिंह आत्मनः प्रतिबिम्बं जलमध्यगतं दृष्ट्वायमसौ सपत्न इति मत्वा-
तिकोपवशात्सिंहनादं मुमोच । ततस्तत्प्रतिशब्देन द्विगुणतरो नादः
कूपात्समुत्थितः । अथासौ तं नादमाकर्ण्य शक्ततरोऽयमिति मत्वा तस्यो-
पर्यात्मानं निक्षिप्य पञ्चत्वमुपगतः । शशकोऽपि हृष्टमनाः सर्वान् मृगाना-
नन्द्य तैः प्रशस्यमानो यथासुखं तत्र वने निवसति स्म ।
 
इति षष्ठी कथा समाप्ता ।
 
अतोऽहं ब्रवीमि । यस्य बुद्धिर्बलं तस्येति । तच्छ्रुत्वा करटक आह ।
यद्येवं तर्हि गच्छ शिवास्ते पन्थानः सन्तु । यथाभिप्रेतमनुष्ठीयतामिति ।
अथ दमनकः पिङ्गलकसमीपं गत्वा प्रणम्योपविष्टः । तेनाभिहितः । कुत
आगम्यते भवता । चिराद् दृष्टोऽसि । सोऽब्रवीत् । देव । आत्ययिकं मन्य-
मानो भर्त्रे निवेदयितुमागतोऽस्मि । न चायं मनोरथः संश्रितानाम् । किं
चोत्तरक्रियाकालविनिपातभीतैर्निवेद्यते । तथा हि ।
 
अनियुक्ता हि साचिव्ये यद्वदन्ति मनीषिणः ।
<flag>अनुरागद्रवस्यैताः</flag> प्रणयस्यातिभूमयः ॥ ६४ ॥