This page has been fully proofread once and needs a second look.

कथा ४-६]
 
वायससर्पकथा - सिंहशशककथा
 
कदाचिज्जातिक्रमाच्छशकस्य वारः समायातः । स तु सर्वैर्मृगैः प्रेषितश्चिन्त -

यामास । अन्तकरोऽयं मृत्युमुखप्रवेशः । किमधुना प्राप्तकालं ममेति । अथवा

बुद्धिमतां किमशक्यम् । तत्सिंहमेवोपायेन व्यापादयामि । इति । तत

आहारवेलातिक्रमं कृत्वा मन्दं मन्दमगच्छत् । सिंहोऽपि क्षुत्क्षामकण्ठः

कोपाविष्टो भर्त्सयंस्तमाह । सुक्रुद्धैरपि किं क्रियतेऽन्यत्र प्राणवियोगात् । 5

स त्वमद्य गतासुरेव । कथय कोऽयं तव वेलात्ययः । अथ प्रणम्य सविनयं

शशक: प्रोवाच । स्वामिन्नायं ममापराधः । अहमागच्छन्पथि सिंहान्तरेण

निरुध्य भक्षितुमुपक्रान्तः । ततो मयाभिहितम् । अहं स्वामिनो मदोन्मत्तस्य

सिंहस्य भोजनार्थं गच्छामि ! ततस्तेनामिभिहितम् । चौररूपी स मदोन्मत्तः ।

ततस्तमाहूय द्रुतभामागच्छ येन यः कश्चिदायोर्मध्यात् पराक्रमेण राजा 10

भविष्यति स सर्वानेवैतान्मृगान् भक्षयिष्यतीति । अतोऽहं स्वामिनं निवे-

दयितुमागतोऽस्मि । तच्छ्रुत्वा सिंह: सकोपमाह । कथमन्योऽत्र मद्भुजपरि-

रक्षिते वने सिंहः । सत्वरं गत्वा मम तं दुरात्मानं दर्शयस्वेति । शशक

आह । यद्येवं तदागच्छतु स्वामी तं दर्शयामीति । असावपि शशकस्तं

गृहीत्वा विमलजलसंपन्नं महान्तं कूपमत्र तं पश्येत्यदर्शयत् । ततः सोऽपि 15

मूर्ख: सिंह आत्मनः प्रतिबिम्बं जलमध्यगतं दृष्ट्वायमसौ सपत्न इति मत्वा -

तिकोपवशात्सिंहनादं मुमोच । ततस्तत्प्रतिशब्देन द्विगुणतरो नादः

कूपात्समुत्थितः । अथासौ तं नादमाकर्ण्य शक्तरोऽयमिति मत्वा तस्यो-

पर्यात्मानं निक्षिप्य पञ्चत्वमुपगतः । शशकोऽपि हृष्टमनाः सर्वान् मृगाना-

नन्द्य तैः प्रशस्यमानो यथासुखं तत्र वने निवसति स्म ।
 
20
 

 
इति ष्ठी कथा समाप्ता ।
 

 
अतोऽहं ब्रवीमि । यस्य बुद्धिर्बलं तस्येति । तच्छ्रुत्वा करटक आह ।

यद्येवं तर्हि गच्छ शिवास्ते पन्थानः सन्तु । यथाभिप्रेतमनुष्ठीयतामिति ।

अथ दमनकः पिङ्गलकसमीपं गत्वा प्रणम्योपविष्टः । तेनाभिहितः । कुत

आगम्यते भवता । चिराद् दृष्टोऽसि । सोऽब्रवीत् । देव । आत्ययिकं मन्य- 25

मानो भर्त्रे निवेदयितुमागतोऽस्मि । न चायं मनोरथः संश्रितानाम् । किं

चोत्तरक्रियाकालविनिपातभीतैर्निवेद्यते । तथा हि ।
 

 
अनियुक्ता हि साचिव्ये यद्वदन्ति नीषिणः ।

<flag>
अनुवैरागद्रवस्यैताः</flag> प्रणयस्यातिभूमयः ॥ ६४ ॥