This page has been fully proofread once and needs a second look.

मित्रभेदम्
 
इति पञ्चमी कथा समाप्ता ।
 
अतोऽहं ब्रवीमि । भक्षयित्वा बहून्मत्स्यानिति । अथ वायसो

जम्बुकमाह । आवयोः किं प्राप्तकालं मन्यसे । असावाह । कस्यचिद्ध-

निकस्य राजामात्यादे: सुवर्णसूत्रमादाय तस्य कोटरे स्थाप्यताम् । तज्जि-
5

घृक्षवस्तं कृष्णसर्पं व्यापादयिष्यन्ति । इत्युक्त्वा स सृगालोऽपक्रान्तः । अथ

वायसौ तदाकर्ण्य सुवर्णसूत्रान्वेषिणावात्मेच्छयोत्पतितौ । ततश्च काकी किंचित्
सर:

सरः
प्राप्य यावत्पश्यति तावत्तन्मध्ये कस्यचिद्राज्ञोऽन्तःपुरं जलासन्न-

न्यस्तकनकसूत्रमुक्ताहारवस्त्राभरणं जलक्रीडां करोति । अथ सा वायसी

कनकसूत्रमेकमादाय वियता शनैरात्मानं दर्शयन्ती स्वमालयं प्रति प्रायात् ।
10 ततञ्

ततश्
च कञ्चुकिनो वर्षधराञ्श्च तन्नीयमानमवलोक्य गृहीतलगुडा: सत्वर-

मनुययुः । काक्यपि सर्पकोटरे तत्कनकसूत्रं निक्षिप्य सुदूरतरमवस्थिता ।

अथ राजपुरुषा यावत्तं वृक्षमारोहन्ति तावत्कोटरगतः कृष्णसर्पः प्रसारि-

तभोग आस्ते । तैयाश्चासौ लगुडप्रहारैर्घातितः । तत्कृत्वा कनकसूत्रमादाय

यथाभिलषितं स्थानं गताः । वायसदम्पती अपि ततः परं सुखेन वसतः ।

 
इति चतुर्थी कथा समाप्ता ।
 
15
 
20
 
[ तन्त्रम् १
 

 
अतोऽहं ब्रवीमि । उपायेन हि यच्छक्यमिति । तन्न किंचिदिह बुद्धि-

मतामसाध्यमस्ति । उक्तं च
 

 
यस्य बुद्धिर्बलं तस्य निर्बुद्धेस्तु कुतो बलम् ।

पश्य सिंहो मदोन्मत्तः शशकेन निपातितः ॥ ६३ ॥

 
करटक आह । कथमेतत् । सोऽब्रवीत् ।
 

 
अथ सिंहशशककथा नाम षष्ठी कथा ।
 

 
अस्ति कस्मिमिंश्चिद्वनोद्देशे मदोन्मत्तो नाम सिंह:हः । स चाजस्रमेव

मृगोत्सादनं कुरुते । अथ ते मृगाः सर्व एव मिलित्वा प्रणतचित्तास्तं मृग-

राजं विज्ञापयामासुः । देव किमनेन परलोक विरुद्धेन स्वामिनो नृशंसेन
25

निष्कारणं सर्वमृगोत्सादनकर्मणा कृतेन । वयं तावद्विनष्टा एव तवाप्या-

हारस्याभावस्तदुभयत उपद्रवः । तत्प्रसीद वयमेव स्वामिन आहारार्थ
मे-

कैकं वनचरं वारेण स्वजातिसमुत्थं प्रत्यहं प्रेषयामः । सिंहेनोक्तम् । एवम
-
स्त्विति । ततः प्रभृति प्रतिदिनं तैः प्रेषितमेकैकं मृगं भवनक्षयन् स्थितः । अथ