2023-04-11 11:39:29 by Alok Kumar
This page has been fully proofread once and needs a second look.
ब्रवीत् । माम किमद्याहारकृत्यं नानुष्ठीयते यथा पुरेति । बक आह । अहं
मत्स्यादस्तेनोपाधिना विना युष्मान् ब्रवीमि । मया युष्मानासाद्य पूर्वं
प्राणरक्षा कृता । सांप्रतं ममाद्य वृत्तिविच्छेदः । अतोऽहं विमनाः ।
सोऽब्रवीत् । माम केन कारणेन । बक आह । अद्य मत्स्यबन्धैरेतत्सरः-
समीपेनातिक्रामद्भिरभिहितम् । बहुमत्स्योऽयं ह्रदोऽस्मिञ्जालं श्वः प्रक्षिपाम
इति । तत्रैकोऽब्रवीत् । नगरसमीपेऽन्ये ह्रदा अनासादितास्तानासाद्यात्र
पुनरागमिष्याम इति । तद्भद्र विनष्टा नाम यूयमहमपि वृत्तिछेदादुत्सन्न
एवेति शोकेनाद्याहारनिवृत्तोऽस्मि । ततः कुलीरेण मत्स्यानां तन्निवेदितम् ।
ततः सर्वैर्मत्स्यैर्मिलित्वाभिहितो बको यथा । यत एवापायः श्रूयते तत
एवोपायोऽपि लभ्यते । तदर्हस्यस्मान् परित्रातुम् । बक आह । अण्डजोऽ-
हमसमर्थो मानुषविरोधे । किं त्वस्माद्ध्रदादन्यमगाधं जलाशयं युष्माने-
कैकश:शः संक्रामयिष्यामि । ततस्तैर्भयाद्विश्वासमुपगतैस्तात भ्रातर्मातुल मां
मां प्रथमतरं नयेत्यभिहितम् । अथासौ दुष्टमतिः क्रमेण तान्मत्स्यान्नीत्वा
नातिदूरे शिलातले निक्षिप्यैकैकं भक्षयन् परं परितोषमुपागतः । कुलीरकस्तु
मृत्युभयोद्विग्नो मुहुर्मुहुस्तं प्रार्थितवान् । माम मामपि तावदर्हसि मृत्युमुखा-
त्परित्रातुमिति । स तु दुष्टात्माचिन्तयत् । निर्विण्णोऽस्म्यनेनैकरसेन मत्स्य-
पिशितेन । एतदीयपिशितविशेषमपूर्वमास्वादयामि । ततः कुलीरमुत्क्षिप्य
वियति गतः सर्वाण्यम्भःस्थानानि परिहृत्य यावत्तस्यां वध्यशिलायामव-
तारयितुकामस्तावत्कुलीरकोऽपि पूर्वभक्षितमत्स्यास्थिराशिं दृष्ट्वैवाचिन्तयत् ।
भक्षिता अनेन दुरात्मना प्रज्ञापूर्वकं ते मत्स्याः । तत्किमधुना प्राप्त-
कालम् । अथवा
अभियुक्तो यदा पश्येन्न कांचिद्गतिमात्मनः ।
युध्यमानस्तदा प्राज्ञो म्रियते रिपुणा सह ॥ ६२ ॥
अनभिज्ञोऽपि बकः कुलीरकसंदंशग्रहस्य मौर्ख्यात् कुलीरकसकाशा-
च्छिरश्छेदमवाप्तवान् । कुलीरकोऽपि मृणालसदृशीं बकग्रीवां गृहीत्वा शनै:नैः
शनैर्मत्स्यान्तिकमेव तत्रैव सरस्यागतः । तैश्चाभिहितः । भ्रातः क्वासौ माम
इति । अथासावब्रवीत् । पञ्चत्वमुपगतः । तस्यैतद्दुरात्मनः शिरः । भक्षिता-
स्तेनोपाधिना बहवः स्वयूथ्या वः । सोऽपि मत्सकाशाद्विनष्ट इति ।
मत्स्यादस्तेनोपाधिना विना युष्मान् ब्रवीमि । मया युष्मानासाद्य पूर्वं
प्राणरक्षा कृता । सांप्रतं ममाद्य वृत्तिविच्छेदः । अतोऽहं विमनाः ।
सोऽब्रवीत् । माम केन कारणेन । बक आह । अद्य मत्स्यबन्धैरेतत्सरः-
समीपेनातिक्रामद्भिरभिहितम् । बहुमत्स्योऽयं ह्रदोऽस्मिञ्जालं श्वः प्रक्षिपाम
इति । तत्रैकोऽब्रवीत् । नगरसमीपेऽन्ये ह्रदा अनासादितास्तानासाद्यात्र
पुनरागमिष्याम इति । तद्भद्र विनष्टा नाम यूयमहमपि वृत्तिछेदादुत्सन्न
एवेति शोकेनाद्याहारनिवृत्तोऽस्मि । ततः कुलीरेण मत्स्यानां तन्निवेदितम् ।
ततः सर्वैर्मत्स्यैर्मिलित्वाभिहितो बको यथा । यत एवापायः श्रूयते तत
एवोपायोऽपि लभ्यते । तदर्हस्यस्मान् परित्रातुम् । बक आह । अण्डजोऽ-
हमसमर्थो मानुषविरोधे । किं त्वस्माद्ध्रदादन्यमगाधं जलाशयं युष्माने-
कैक
मां प्रथमतरं नयेत्यभिहितम् । अथासौ दुष्टमतिः क्रमेण तान्मत्स्यान्नीत्वा
नातिदूरे शिलातले निक्षिप्यैकैकं भक्षयन् परं परितोषमुपागतः । कुलीरकस्तु
मृत्युभयोद्विग्नो मुहुर्मुहुस्तं प्रार्थितवान् । माम मामपि तावदर्हसि मृत्युमुखा-
त्परित्रातुमिति । स तु दुष्टात्माचिन्तयत् । निर्विण्णोऽस्म्यनेनैकरसेन मत्स्य-
पिशितेन । एतदीयपिशितविशेषमपूर्वमास्वादयामि । ततः कुलीरमुत्क्षिप्य
वियति गतः सर्वाण्यम्भःस्थानानि परिहृत्य यावत्तस्यां वध्यशिलायामव-
तारयितुकामस्तावत्कुलीरकोऽपि पूर्वभक्षितमत्स्यास्थिराशिं दृष्ट्वैवाचिन्तयत् ।
भक्षिता अनेन दुरात्मना प्रज्ञापूर्वकं ते मत्स्याः । तत्किमधुना प्राप्त-
कालम् । अथवा
अभियुक्तो यदा पश्येन्न कांचिद्गतिमात्मनः ।
युध्यमानस्तदा प्राज्ञो म्रियते रिपुणा सह ॥ ६२ ॥
अनभिज्ञोऽपि बकः कुलीरकसंदंशग्रहस्य मौर्ख्यात् कुलीरकसकाशा-
च्छिरश्छेदमवाप्तवान् । कुलीरकोऽपि मृणालसदृशीं बकग्रीवां गृहीत्वा श